SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 57 for श्रीवानर्षिगणिविहितवृत्तियुतम् ng 'किं निरीक्षथः ?', तौ भणतः- अस्मद्भगिनी तव सदृक्षाऽभूत्, किन्तु सा मृता, अन्यथा न प्रत्यय उत्पद्यते आवयोः', तयोक्तं-'सत्यं जानीथः, अहमेव सा', तया सर्वं पूर्वस्वरूपं कथितं, ताभ्यां सा वयःपरिणता सार्थवाहान्मोचिता दीक्षिता आलोच्य स्वर्गतेति // 84 // किञ्च - जत्थित्थीकरफरिसं, लिंगी अरिहावि सयमवि करिज्जा / तं निच्छयओ गोयम ! जाणिज्जा मूलगुणभट्ट ||85|| यत्र स्त्रीकरस्पर्श लिङ्गी अर्होऽपि स्वयमपि (स्वयमेव) कुर्यात् / तं निश्चयतो गौतम ! जानीयात् मूलगुणभ्रष्टम् // 85 // व्याख्या - यत्र=गणे स्त्रीकरस्पर्श ‘लिङ्गी' मुनिः, किंभूतः ? - ‘अर्हन्नपि' पूजादियोग्योऽपि स्वयमपि कुर्यात् तं गच्छं निश्चयतो हे गौतम! जानीयात् 'मूलगुणभ्रष्टं' पञ्चमहाव्रतरहितमिति पाठान्तरे तु - "जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने / अरिहावि करिज्ज सयं, तं गच्छं मूलगुणमुक्कं // " सुगमा // अत्र श्रीमहानिशीथपञ्चमाध्ययनोक्तसावधाचार्यस्य दृष्टान्तो ज्ञेय इति // 85 // अथापवादमाह - कीरइ बीयपएणं, सुत्तमभणिअं न जत्थ विहिणा उ | उप्पण्णे पुण कज्जे, दिक्खाआयंकमाईए ||86|| क्रियते द्वितीयपदेन सूत्राभणितं न यत्र विधिना तु / उत्पन्ने पुनः कार्ये दीक्षाऽऽतङ्कादिके // 86 // व्याख्या - येत्र=गणे द्वितीयपदेन अपवादेन सूत्रानुक्तम् आगमाप्रतिपादितं पुनः दीक्षाऽऽतङ्कादिके कार्य कारणे उत्पन्ने विधिनापि न क्रियते स गच्छः / 'कीरइ बीयपएणं सुत्तमि भणिय' मित्यपि पाठः, अनेन पाठेन गाथाव्याख्यानं यथा-यत्र गच्छे 1. 'जाणेज्जा' D-E-F-G-H-प्रतेषु / 2. "क्रियते' विधीयते 'द्वितीयपदेन' उत्सर्गपदापेक्षयाऽपवादपदेन 'सुत्तमभणिय'मित्यत्र मकारोऽलाक्षणिकः सूत्रे बृहत्कल्पादौ अभणितं-भगवता अकथितं सूत्रभणितं साध्वीपदे न न 'यत्र' गणे 'विधिवत्' शास्त्रोक्तप्रकारेण, तुशब्दोऽनेकद्रव्यक्षेत्रकालभावप्रकारसूचकः, 'उत्पन्ने' प्रकटीभूते पुनः कार्ये महालाभकारणे, किंभूते कार्ये ?-दीक्षायां गृहीतायां दीक्षाऽऽतङ्कादिकं तस्मिन् आदिशब्दाद्विषमविहारादाविति, आतङ्क आदिर्यत्र तत्, स न गच्छ इति / " इति पूर्वमुद्रिते, अत्र A-B-C-D प्रतानुसारेणं संयोजितः पाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy