________________ . श्रीवानर्षिगणिविहितवृत्तियुतम् जत्थित्थीकरफरिसं, अंतरिअं कारणेऽवि उप्पन्ने / दिट्ठीविस-दित्तग्गी-विसं व वज्जिज्जए गच्छे / / 83|| यत्र स्त्रीकरस्पर्शमन्तरितं कारणेऽपि उत्पन्ने दृष्टिविष-दीप्ताग्नि-विषमिव वर्जयेत् गच्छे / / 83 // व्याख्या - यत्र गणे 'स्त्रीकरस्पर्श' साध्वीहस्तसङ्कट्टनं, उपलक्षणत्वात्पादादिसंघट्टनं 'अंतरिअ'मिति विना 'कारणे'त्ति कारणं, अत्र द्वितीयार्थे सप्तमी, कण्टकरोगोन्मत्तादिलक्षणम्, 'अपि' समुच्चये, किंभूतं कारणम् ? - 'उत्पन्नं' संजातं, दृष्टिविषसर्प-दीप्ताग्नि-विषमिव वर्जयेत् स गच्छः / यद्वा-यत्र स्त्रीकरस्पर्श गृहस्थरामाकरपादादिसट्टनं 'अन्तरे' वस्त्रादिव्यवधाने, अत्र प्राकृतत्वाद्विभक्तिपरिणामः, कारणे उत्पन्नेऽपि दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छ इति // 83 // बालाए वुड्ढाए, नत्तुअ दुहिआइ अहव भइणीए | न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ||84|| बालाया वृद्धाया नप्तृकाया दुहिताया अथवा भगिन्याः / न च क्रियते तनुस्पर्शः, गौतम ! गच्छः स भणितः / / 84 / / व्याख्या - 'बालायाः' अप्राप्तयौवनायाः 'वृद्धायाः' स्थविरायाः, उपलक्षणत्वान्मध्यमायाः, एवंविधायाः 'नप्तकायाः' सुतसुतायाः 'दुहितृकायाः' सुतासुतायाः अथवा 'भगिन्याः' याम्याः, उपलक्षणत्वान्मातुः पुत्र्याः कलत्रस्येत्यादिग्रहणम् 'तनुस्पर्शः' अस्पर्शो न च क्रियते हे इन्द्रभूते! स गच्छः / अत्र सूत्रे स्पर्शनिषेध उक्तः, एवमन्ये शब्दादयोऽपि त्याज्याः, यतः पुरुषस्पर्शेन पुरुषस्य मोहोदयो भवति न वा, यदि भवेत्तदा मन्दः, न स्त्रीस्पर्शवदुत्कटः, स्त्रीस्पर्शेन पुनः पुरुषस्य नियमाद्भवति मोहोदय उत्कटः 1 / एवं स्त्रियाः स्त्रीस्पर्श सति भजना, स्त्रियाः पुरुषस्पर्शेन नियमान्मोहोदयः 2 / तथा पुरुषस्य पुरुषशब्दं श्रुत्वा भजना, पुरुषस्येष्टे स्त्रीशब्दे श्रुतेऽवश्यं मोहोदयः 3 / एवं स्त्रिया अपि भावनीयम् 4 / तथैवमिष्टे रूपेऽपि जीवसहगते चित्रकर्मादिप्रतिमायां वा भाव्यम् / स्पर्श उदाहरणानि यथा-"आणंदपुरं नगरं, जितारी राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण