SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 54 0 श्रीगच्छाचारप्रकीर्णकम् ई. शालीगोधूमयवबरसादीनि तेषां बीजानां त्वगादीनां च, आदिशब्दात्तृणमूल-पत्राङ्करफलादीनां, विविधसजीवद्रव्याणां संघट्टनं स्पर्शनं परितापनं सर्वतः पीडनं यत्र न क्रियते स गच्छः // 81 // हासं खेड्डा कंदप्प, नाहियवायं न कीरए जत्थ | धावण डेवण लंघण-ममकाराऽवण्णउच्चरणं ||82|| हास्यं खेला कान्दी नास्तिकवादो न क्रियते यत्र / धावनं डेपनं लङ्घनं ममकारः अवर्णोच्चारणम् // 82 // ___ व्याख्या - 'हास्यं' सामान्येन हसनं वक्रोक्त्या हसनं वा 'खेड्डा' इति क्रीडा बालकवद् गोलकादिना रमणमित्यर्थः, क्रीडा वाऽन्ताक्षरिका प्रहेलिकादानादिरूपा, 'कंदप्प'त्ति कन्दर्पभावना, उपलक्षणत्वात् किल्बिषिका-ऽऽभियोगिका-ऽऽसुरिकमोहभावनाः, तत्र मायया परविप्रतारणवचनं वाऽट्टहासहसनं अनिभृतालापाश्च गुर्वादिनाऽपि सह निष्ठरवक्रोक्त्यादिरूपाः कामकथा कामोपदेशप्रशंसा कायचेष्टा वाक्चेष्टा परविस्मापकविविधोल्लापाः तत्कन्दर्पभावना 1, सातरसद्धिहेतवे यन्मन्त्रयोगभूतिकर्मादिकरणं तदाभियोगिकभावना 2, यत् श्रुतज्ञानादेः केवलिनां धर्माचार्यस्य सङ्घस्य साधूनां च निन्दाकरणं तत्किल्बिषिकभावना 3, यन्निरन्तरक्रोधप्रसरः, यच्च पुष्टालम्बनं विनाऽतीतादिनिमित्तकथनं तदासुरीभावना 4, यदात्मवधार्थं शस्त्रग्रहणं विषभक्षणं भस्मीकरणं जलप्रवेशनं भृगुपातादिकरणं कारणं विना तन्मोहभावना 5 / 'नाहियवाय'ति नास्तिकवादः, यथा-'नास्ति जीवः नास्ति परलोकः नास्ति पुण्यं नास्ति पापं' इत्यादिकम् 'नाहियवाय'ति मायया परविप्रतारणवचनं वा 'न क्रियते' न विधीयते साधुभिर्यत्र गणे, तथा 'धावनं' सामान्येन वक्रगत्या गमनं, यद्वा 'धावनं' अकाले कारणं विना वर्षाकल्पादिक्षालनं 'डेवनं' वेगेनाश्ववद्गमनं कोशिकतापसवत्, 'लङ्घनं' वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्, यद्वा 'लङ्घनं' परस्परकलहेन क्रोधादिना श्राद्धोपरि वाऽन्नपानादिमोचनं, 'ममकारः' ममताकरणं वस्त्रपात्रोपाश्रयश्राद्धादिषु 'अवर्णोच्चारणं' अवर्णवादकथनमर्हदादीनामिति // 82 // - - - - - - - - - - - - - - - - - - - - - - - - 1. 'जइ हास खेड्ड कंदप्प नाहवायं' F-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy