________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् . बीयपएणं सारूविगाइ सड्ढाइमाइएहिं च / कारिती जयणाए, गोयम ! गच्छं तयं भणियं ||80|| द्वितीयपदेन सारूपिकादि-श्राद्धादिआदिभिश्च / कारयन्ति यतनया, गौतम ! गच्छः स भणितः // 80 // व्याख्या - 'द्वितीयपदेन' अपवादपदेन सारूपिकादिभिः श्राद्धादिभिश्च कारयन्ति 'यतनया' निशीथादिग्रन्थोक्तयतनाकरणेन, यथा-"साहुणो सूलं विसूइया वा होज्जा, तो तावणे इमा जयणा-महापीडाए जत्थ अगणी अहाकज्जो झियाइ तत्थ गंतुं सूलादि तावेयव्वं जइ गिहवइणो अचियत्तं न भवइ, अहव गुज्झगाणि तावेयव्वाणि ताणि य गिहत्थपुरओ न सक्कंति तावेउं तो ण गम्मइ” [नि०भा० २३२-चूर्णी] इत्यादियतनाविशेषो विशेषज्ञैर्विशेषसूत्राद्विज्ञेयः, तत्र प्रथमं मुण्डितशिराः शुक्लवासःपरिधायी कच्छां न बध्नीत अभार्याको भिक्षां हिण्डमानः सारूपिकस्तस्य समीपे, तस्याभावे सभार्याको वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, तस्याभावे त्यक्तचारित्रः पश्चात्कृतः, तस्याभावे गृहीताणुव्रतः श्राद्धः, तस्याभावे भद्रकान्यतीर्थिकस्तस्य समीपे कारयन्त्यग्नियतनां यत्र हे इन्द्रभूते! 'तयं'ति स गच्छो भणितो मयेति // 80 // पुष्फाणं बीआणं, तयमाईणं च विविहदव्वाणं / संघट्टण-परिआवण, जत्थ न कुज्जा तयं गच्छं ||81|| पुष्पानां बीजानां, त्वगादीनां च विविधद्रव्याणाम् / सङ्घट्टनं परितापनं, यत्र न कुर्यात् स गच्छः / / 81 // व्याख्या - पुष्पाणि चतुर्विधानि-जलजानि 1, स्थलजानि 2 / तत्र जलजानि= सहस्रपत्रादीनि 1, स्थलजानि कोरण्टकादीनि 2 / तान्यपि प्रत्येकं द्विविधानिवृन्तबद्धानि=अतिमुक्तकादीनि 3 नालबद्धानि च जातिपुष्पप्रभृतीनि 4 / तत्र यानि नालबद्धानि तानि सर्वाणि सङ्ख्येयजीवानि, यानि तु वृन्तबद्धानि तान्यसङ्ख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवात्मकानि, तेषां पुष्पाणां, तथा बीजानि=