________________ 52 fon श्रीगच्छाचारप्रकीर्णकम् // यत्र च बाह्यपानीयबिन्दुमात्रमपि ग्रीष्मादिषु / तृष्णाशोषितप्राणाः, मरणेऽपि मुनयो न गृह्णन्ति // 77 // व्याख्या - हे गौतम ! यत्र च गच्छे ‘बाह्यपानीयं' तटाक-कूप-वापी-नद्यादिसचित्तजलं 'बिन्दुमात्रमपि' जलकणमात्रकमपि, क्व ? - ग्रीष्मादिषु कालेषु, आदिशब्दाच्छीतवर्षाकालयोः, तृष्णया द्वितीयपरीषहेण शोषिताः ग्लानिं प्रापिताः प्राणाः उच्छासादयो येषां ते तृष्णाशोषितप्राणाः प्राणान्तेऽपि 'मुनयः' साधवो न गृह्णन्ति स गच्छ इति, खुड्डकवत् // 77 // इच्छिज्जइ जत्थ सया, बीयपएणावि फासुअं उदयं / आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं |78|| इष्यते यत्र सदा द्वितीयपदेनापि प्रासुकमुदकम् / आगमविधिना निपुणं, गौतम ! गच्छः स भणितः // 78 // व्याख्या - हे इन्द्रभूते ! 'इष्यते' वाञ्छाक्रियते 'यत्र' गणे 'सदा' सर्वकालं उग्रपदापेक्षया द्वितीयमपवादपदं तेनापि प्रगता असवः-प्राणा जीवा यस्मात्तत्प्रासुकम्, किम् ? - 'उदकं' जलं 'आगमविधिना' आचाराङ्ग-निशीथादिसिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात्तथा गच्छो भणितः // 7 // जत्थ य सूल विसूइय अन्नयरे वा विचित्तमायके | उप्पण्णे जलणुज्जालणाइ, कीरइ न मुणि तयं गच्छं 79|| यत्र च शूले विशूचिकायां अन्यतरस्मिन् वा विचित्रातङ्के। उत्पन्ने ज्वलनोज्ज्वालनादि, क्रियते न मुने ! स गच्छः // 79 / / व्याख्या - यत्र च गणे शूले विशूचिकायां च, आर्षत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा 'विचित्रे' अनेकविधे 'आतङ्के' सद्योघातिरोगे 'उत्पन्ने' प्रादुर्भूते सति ज्वलनस्य अग्नेरुज्ज्वालनं प्रज्वलनं ज्वलनोज्ज्वालनं, अग्न्यारम्भमित्यर्थः मुनयो न कुर्वन्ति, आदिशब्दादन्यदपि सदोषं, स गच्छ:, आवश्यकोक्ताषाढाचार्यवदिति // 79 // ------ 1. 'न करेइ, तं गच्छं' A-D-E-H-प्रतपाठः / - - - - - - - - - - - - -