________________ 6. श्रीवानर्षिगणिविहितवृत्तियुतम् ng * तथा सर्व एवानन्तवनस्पतिकायो निश्चयतः सचित्तः, शेषः प्रत्येकवनस्पतिर्व्यवहारतः सचित्तः 1, प्रम्लानफलकुसुमपर्णानि मिश्राणि, लोट्टस्य मिश्रकालो यथा - "पणदिण मीसो लोट्टो अचालिओ सावणे य भद्दवए 1 / चउ आसोए कत्तिय 2 मग्गसिरपोसेसु तिन्नि दिणा 3 // 1 // पण पहर माहफग्गुणि 4 पहरा चत्तारि चित्तवइसाहे 5 / जिट्ठासाढे तिपहर 6 अंतमुहुत्तं च चालियओ // 2 // " [ ] द्वीन्द्रियाः सकलजीवप्रदेशवन्तः सचित्ताः, विपर्ययादचित्ताः, जीवन्मृता एकत्र संमिलिता मिश्राः, एवं त्रीन्द्रियादयः / यतना यथा-पृथिव्यदकयोर्गमने प्राप्ते पृथिव्यां गम्यं उदके पृथ्वीत्रसादिसद्भावात् 1, पृथिवीवनस्पत्योः पृथिव्यां गम्यं न वनस्पतौ तद्दोषस्यापि संभवात् 2, पृथिवीत्रसयोस्त्रसरहिते विरलत्रसे वा गम्यं निरन्तरे तु पृथिव्यामेव 3, जलवनस्पतिकाययोर्वनस्पतिना गम्यं उदके नियमाद्वनस्पतिसद्भावात् 4, इत्यादि // 75 // खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं / नो दया तस्स जीवेसु, सम्मं जाणाहि, गोयमा ! ||76|| खर्जूरीपत्रेन मुञ्जेन य उपाश्रयं प्रमार्जयति / न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! // 76 // व्याख्या - खजूरपत्रमयप्रमार्जन्या मुञ्जमयबहुकर्या वा 'यः' साधुः उपाश्रीयते= भज्यते शीतादित्राणार्थं यः स उपाश्रयस्तमुपाश्रयं प्रमार्जयति तस्य मुनेर्जीवेषु 'दया' घृणा नास्ति हे गौतम ! त्वं सम्यग् जानीहीति // 6 // जत्थ य बाहिरपाणिअ-बिंदूमित्तंपि गिम्हमाईसु | तण्हासोसिअपाणां, मरणेऽवि मुणी न गिण्हंति ||77|| - - - - - - - - - - - 1. 'बायर०' E-प्रते / 2. '०पाणस्स बिंदुमि०' F-प्रते / 3. 'पाणे' F-प्रते /