________________ श्रीगच्छाचारप्रकीर्णकम् , पृथिव्युदका-ऽग्नि-मारुत-वायु-वनस्पति-त्रसानां विविधानाम् / मरणान्तेऽपि न पीडा क्रियते मनसा स गच्छः // 75 // व्याख्या - पृथ्वीदकाग्निमारुतानां, वाशब्द एषां भेदसूचकः, तुशब्दस्तु यतनासूचकः, वनस्पतित्रसाणां विविधानां मनसाऽपि मरणान्तेऽपि यत्र पीडा बाधा न क्रियते स गच्छः / तत्र पृथ्वीकायस्त्रिधा - सचित्ताचित्तमिश्रभेदात्, सचित्तो द्विधा - निश्चय-व्यवहाराभ्याम्, रत्नशर्कराप्रभृतीनां महापर्वतानां हिमवदादीनां च बहुमध्ये यः स निश्चयतः सचित्तः 1, शेषोऽरण्यादौ पृथ्वीकायः स व्यवहारसचित्तः, उदुम्बरादिक्षीरद्रुमाणामधः पथि च मिश्रः, हलकृष्टो यः स तत्क्षणादेवाऽऽोऽशुष्कः क्वचिन्मिश्रः 2, शीतोष्णक्षारक्षत्राग्निलवणौषधकाञ्जिकस्नेहशस्त्रैरभिहतोऽचित्तः 3 / __ तथाऽप्कायोऽपि त्रिधा, घनोदधिघनवलयकरकाः समुद्रमध्ये द्रहमध्ये च यः स निश्चयतः सचित्तः, शेषोऽगडादीनां व्यवहारतः सचित्तः 1, अनुवृत्ते त्रिदण्डे मिश्रं, वर्षे पतितमात्रं च मिश्रं, चाउलोदकं यावद्बहु प्रसन्नं निर्मलं न स्यात्तावन्मिश्रं 2, बहुप्रसन्ने त्वचित्तमेवेति 3 / / तथेष्टकापाकादिमध्यगो विद्युदादिकश्च नैश्चयिकः अङ्गारादिको व्यावहारिकः सचित्तः 1, मुर्मुरादिको मिश्रः 2, ओदनव्यञ्जनाचाम्लावश्रवणादिकोऽचित्ताग्निकाय: 3 / तथा घनतनुवाता निश्चयतः सचित्ताः, अतिहिमपाते यो वायुः अतिदुर्दिने च स नैश्चयिकः सचित्तः, प्राच्यादिवायुर्व्यवहारतः सचित्तः, क्षेत्रतो वायुभृतो दृतिर्जले एकहस्तशतगतश्चेदचित्तः, द्वितीयहस्तशतप्रारम्भे मिश्रः, तृतीयहस्तशतप्रारम्भे सचित्तः, कालतः वायुपूरितो बस्तिः स्निग्धे उत्कृष्टमध्यमजघन्ये त्रिविधेऽपि काले एकद्वित्रिपौरुषीभिर्द्वित्रिचतुःपौरुषीभिस्त्रिचतुःपञ्चपौरुषीभिश्च यथाक्रममचित्तः मिश्रः सचित्तः स्यात्, रूक्षे त्रिविधेऽपि काले एकद्वित्रिभिर्द्वित्रिचतुर्भिस्त्रिचतुःपञ्चभिर्दिनैर्यथाक्रममचित्तः मिश्रः सचित्तः स्यात् / - - - - - - - - - - - - - - - - - - - - - - 1. 'तत्क्षणादेवा?ऽशुष्कः' इति पूर्वमुद्रिते, अत्र A-आदि / 2. 'अनुद्धृते' इति पूर्वमुद्रिते - अत्र A आदिप्रतपाठः /