SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 48 for श्रीगच्छाचारप्रकीर्णकम् of समश्रेण्या भिक्षामटति सा पेटा 5, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासदृशसंस्थानयोटिंगद्वयसंबद्धयोर्गृहश्रेण्योरत्र पर्यटति, 6 तथा शम्बूकः शङ्खस्तद्वत् या वीथिः सा शम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात् शङ्कावर्त्तया परिभ्रमणभङ्ग्या भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका 7, यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका 8 / तथा श्रीवीरस्योदुम्बरविषयः, अन्योऽपि स्वपरग्रामे गृहसङ्ख्याविषयः क्षेत्राभिग्रहः 2 / अमुकवेलायां मया भिक्षार्थं गन्तव्यमिति कालाभिग्रहः 3 / तथा गायन रुदन् अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कृतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रह: 4 इति // 73 // मुणिणं नाणाभिग्गह-दुक्करपच्छित्तमणुचरंताणं / जायइ चित्तचमकं, देविंदाणं पि तं गच्छं |74|| मुनीनां नानाभिग्रह-दुष्करप्रायश्चित्तमनुचरताम् / जायते चित्तचमत्कारो देवेन्द्राणामपि स गच्छः // 74 // व्याख्या - 'मुनीन्' साधून् ‘नानाऽभिग्रहं' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो दृष्ट्वेति गम्यते 'जायते' उत्पद्यते चित्ते=मनसि चमत्कार:=आश्चर्यं चित्तचमत्कारः, केषां ? - देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः / तत्र प्रायश्चित्तं दशधा आहारादिग्रहणोच्चारस्वाध्यायभूमिचैत्ययतिवन्दनार्थं पीठफलकप्रत्यर्पणार्थं कुलगणसङ्घादिकार्यार्थं च हस्तशताबहिर्निर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणम् तेनैव शुद्धिः 1, समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभले इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति, न गुरुसमक्षमालोच्यते इति भावः 2, सहसाऽनाभोगेन
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy