________________ 47 for श्रीवानर्षिगणिविहितवृत्तियुतम् // मउए निहुअसहावे, हास-दवविवज्जिए विगहमुक्के / असमंजसमकरते, गोयरभूमऽट्ट विहरंति |73|| मृदुका निभृतस्वभावा हास्यद्रवविवर्जिता विकथामुक्ताः / असमञ्जसमकुर्वन्तः गोचरभूम्यर्थं(गोचरभूम्यष्टकं)विहरन्ति // 73 // व्याख्या - द्रव्यभावभेदान्मृदुका द्विधा, तत्र द्रव्यमृदुका:=अर्कतूलादिकाः, भावमृदुकाः सिद्धान्तयथोक्तकथकाः जिनोक्ते निःशङ्कादिस्वभावा वा, 'निभृतस्वभावाः' अपवादापवादागमश्रवणे गुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भीरस्वभावाः गुर्वादिना ताडिता अपि गुरुकुलावासे निश्चलचित्ता वा, 'हास्यद्रवविवर्जिताः' तत्र हास्यं सामान्येन हसनं द्रवः परोपहासः, यद्वा हास्यं दन्तोद्घाटनादिना हसनं द्रवः= कर्करादिना क्रीडादिकरणं 'विगहमुक्के' विकथाविमुक्ताः 'असमञ्जसं' गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिव चरणं गोचरस्तस्य भूमिर्गोचरभूमिस्तदर्थं विहरन्ति, अयं भावः-ज्ञानादिप्रयोजने भ्रमन्ति न निष्प्रयोजनमिति / यद्वा गोचरभूमिः अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थं विचरन्ति, उपलक्षणादन्येऽपि ग्राह्याः / स चाभिग्रहो द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र लेपकृतं जगारिप्रमुखमलेपकृतं वा वल्लादिकं द्रव्यमहं ग्रहीष्यामि, अमुकेन वा दर्वी-कुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः 1 / क्षेत्राभिग्रहेऽष्टौ गोचरभूमयो, यथा-यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षार्थं परिभ्रमन् तावद् याति यावत्पङ्क्तौ चरमगृहम्, ततो भिक्षामगृह्णन्नेवापर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते सा ऋज्वी 1, यत्र पुनरेकस्यां गृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनद्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका 2, यस्यां तु वामगृहाद्दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोमूत्रिका 3, यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका 4, यस्यां तु साधुः क्षेत्रं पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु 1. 'असमंजसमकरिते' A-आदिष / 2. 'वियरंति' E-G-प्रते /