SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 46 ___en श्रीगच्छाचारप्रकीर्णकम् 10 शक्यते तदा शुद्धिः, नो चेत् कल्पत्रयेणेति / तथा 'आउत्ता कप्पतिप्पेसु'त्ति कल्पत्रेपौ=असंसृष्टनीरादिना स्वस्वगच्छोक्तसमाचारीविशेषौ तयोरायुक्ताः, यद्वा आयुक्ता =उद्यमपराः, कयोः ? - कल्पश्च पात्रवस्त्रक्षालनलक्षणः त्रेपश्चअपानादिक्षालनलक्षणः कल्पत्रेपौ तयोः कल्पत्रेपयोः, तत्र कल्पो जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथम् ? - ओदनमण्डकयवक्षोदकुल्माषराजमाषचपलचपलिकावृत्तचनकसामान्यचनकनिष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते पात्रे एको मध्ये कल्पः 1 द्वितीयो बहिः 2 तृतीयस्तु सर्वत्रेति कल्पत्रयं 3 जघन्यतः 1, शाकपेयायवागूकोद्रवौदनराद्धमुद्दाल्याद्यल्पलेपकृदाहारे गृहीते पात्रे कल्पत्रयं मध्ये तत एक बहिर्मध्ये च तत एकः सर्वत्रेति कल्पपञ्चकं मध्यमतः 2, क्षीरदधिक्षीरपेयातैलघृतमुद्गपानकातीवरसाधिके बहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ बहिर्मध्ये ततो द्वौ हस्तमुखपात्रबहिर्मध्ये सर्वत्रेति कल्पसप्तकमुत्कृष्टतः 3, सामान्येन च सर्वत्रापि कल्पसप्तकं देयमिति वृद्धवादः, हस्ते तु मणिबन्धं यावत्कल्पा देया इति / त्रेपः अपानादिक्षालनविधिः, तथा चोक्तं श्रीनिशीथसूत्रतृतीयचतुर्थोद्देशके-“जे भिक्खू वा भिक्खुणी वा उच्चारपासवणं परिठावेत्ता परं तिण्हं णावापूराणं आयमइ आयमंतं वा साइज्जइ" [नि०सू०४/१११] सूत्रम् / अस्य चूर्णि:-*णाव 'त्ति पसति, ताहि तिहिं आयमियव्वं / अण्णे भणंति-अंजली / पढमं णावापूरं तिहा करेत्ता अवयवे विकिंचेति, बितियं णावापूरं तिहा करेत्ता सर्वावयवान् विसोहेइ, ततियं णावापूरं तिहा करेत्ता तिण्णि कप्पे करेइ, सुद्धं, अतो परं जइ तो 'मासलहुँति षट्कायवधदोषो बकुशत्वं च, कारणे तु - अतिरित्तेण आयमइ जेण वा निल्लेवं णिग्गंधं भवतीत्यर्थः / तथा कारणे तु मूत्रेणापि कल्पते, उक्तञ्च बृहत्कल्पे-"णो कप्पइ निग्गंथाण वा निग्गंथीण वा अण्णमण्णस्स मोयं आइयत्तए वा आयमित्तए वा णण्णत्थ गाढेसु वा रोगायंकेसु" [बृह०सू० 5/37] व्याख्या - नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्योऽन्यस्य परस्परस्य मोकं मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह-गाढाः अहिविषविशूचिकादयः अगाढाश्च= ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः [बृह० ५/३७-वृत्तौ] इति, एवंविधाः साधवो यत्र भवन्ति स गच्छः // 72 // 1. ....... *' एतच्चिन्हान्तर्गतपाठः पूर्वमुद्रिते लुप्तः, अत्र A-आदिप्रतानुसारेण विन्यस्तः / - - - - - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy