SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 43 Gon श्रीवानर्षिगणिविहितवृत्तियुतम् . 'धर्मेण सह' श्रुतचारित्रलक्षणेन सह स्थापयन्, उपलक्षणत्वात् अतीवगहनवृक्षदुर्गे व्याघ्रसिंहादिश्वापददुर्गे म्लेच्छादिभयमनुष्यदुर्गे गर्तापाषाणादिविषमस्थाने विषमपर्वते वा प्रस्खलमानां सर्वगात्रैः पतन्ती वा बाह्वादावङ्गे गृह्णन् सर्वाङ्गीणं वा धारयन् एवमुदकपङ्कादौ अपकसन्तीं अपोह्यमानां वा नष्टचित्तां दीप्तचित्तां लाभादिमदेन परवशीभूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणां सप्रायश्चित्तां प्रायश्चित्तभयेन विषण्णां प्रायश्चित्तं वहन्ती तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थानकोक्तसभयादिकारणैरेकत्र तिष्ठन्नपि 'नयसरिसो 'त्ति नयसदृशो भवति साधुः, कोऽर्थः ? - यथा नैगमादिभिः सप्तभिर्नयैः सूत्रं व्याख्यायमानं आज्ञां नातिक्रामति, एवमत्रापि जिनाज्ञां नातिक्रामति साधुः। तथा 'जाण असिलेसो'त्ति 'अश्लेषः' अबन्धकः 'जाण'त्ति ज्ञातव्यः, आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः / अस्या गाथाया अन्याऽपि यथागमं व्याख्या कार्येति // 70 // पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाह - वायामित्तेणवि जत्थ, भट्ठचरित्तस्स निग्गहं विहिणा | बहुलद्धिजुअस्सावी, कीरइ गुरुणा तयं गच्छं ||71|| वाङ्मात्रेणापि यत्र, भ्रष्टचरित्रस्य निग्रहो विधिना / बहुलब्धियुतस्यापि, क्रियते गुरुणा स गच्छः // 71 / / व्याख्या - वाङ्मात्रेणापि, आस्तां क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छः, 'वाङ्मात्रेण' वचनव्यापारेण=रे कुशील ! रे अपण्डित ! रे जिनाज्ञाभञ्जक ! रे सद्गच्छमर्यादावल्लीकन्दकुद्दाल ! इत्यादिना, अपिशब्दान्मनसा यथा-अयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन, कायेन-करचालनशिरःकम्पनादिना यत्र गणे, कस्य ? - 'भ्रष्टचरित्रस्य' शिथिलसंयमस्य 'निग्रहः' दण्डः 'विधिना' सूत्रोक्तप्रकारेण, कथंभूतस्य ? - 'बहुलब्धियुक्तस्यापि' आमीषधिविण्मूत्रौषधिश्लेष्मौषध्यादिसहितस्यापि 'क्रियते' विधीयते - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'सप्रायश्चित्तप्रायश्चित्तभयेन' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः / 2. 'जुयस्सा वी' H-प्रते / - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy