________________ d. श्रीगच्छाचारप्रकीर्णकम् / - व्याख्या - ‘सर्वार्थेषु' सर्वहेयपदार्थेषु 'विमुक्तः' ममतादिरहितः 'साधुः' मोक्षसाधकः 'सर्वत्र' क्षेत्रकालद्रव्यभावादिषु भवति 'आत्मवशः' न कुत्रापि परवशो भवतीत्यर्थः, 'सः' मनिर्भवति 'अनात्मवशः' परवशः य आर्याणां 'अनुचरत्वं कुर्वन्' सेवकत्वं निष्पादयन् तिष्ठतीति // 68 // अत्र दृष्टान्तमाह - खेलपडिअमप्पाणं, न तरइ जह मच्छिआ विमोएउं | अज्जाणुचरो साहू, न तरइ अप्पं विमोएउं ||69|| श्लेष्मपतितमात्मानं, न शक्नोति यथा मक्षिका विमोचयितुम् / आर्यानुचरः साधुर्न शक्नोत्यात्मानं विमोचयितुम् // 69 // व्याख्या - श्लेष्मपतितमात्मानं 'न तरति' न शक्नोति यथा मक्षिका 'मोचयितुं' पृथक् कर्तुम्, स्थानान्तरे गन्तुमित्यर्थः, एवं 'आर्यानुचरः' साध्वीपाशबद्धपादः साधुः 'न तरति' न शक्नोति 'आत्मानं विमोचयितुं' स्वेच्छया ग्रामादिषु विहर्तुमित्यर्थः // 69 // साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा / धम्मेण सह ठवंतो, नयसरिसो जाण असिलेसो ||70|| साधो स्ति लोके, आर्यासदृशी हु बन्धने उपमा / धर्मेण सह स्थापयतो नयसदृशो जानीह्यश्लेषः // 70 // व्याख्या - 'साधोः' मुनेः 'नास्ति' न विद्यते, क्व ? - 'लोके' प्राकृतजने 'आर्यासदृशी' साध्वीतुल्या 'हुः' निश्चितं 'बन्धने' पाशलक्षणे 'उपमा' तत्सदृशं वस्त्वित्यर्थः, अपवादापवादमाह-'जाण'त्ति याः साध्वीः संयमभ्रष्टा धर्मेण सह स्थापयन् साधुः 'नयसदृशः' आगमवेदीत्यर्थः 'अश्लेषः' अबन्धको ज्ञातव्य इति, "क्वचिद्वितीयादेः" इति प्राकृतसूत्रेण जाणेत्यत्र द्वितीयार्थे षष्ठी / अथवा 'धर्मात्' श्रुतचारित्रात् काञ्चिद् भ्रष्टां 'ज्ञात्वा' दृष्ट्वा तत्पार्वे गच्छोपदेशपरिचयादिकं कत्वा 1. 'अप्पा वि' E-F-G-प्रते / 2. 'उवेंतो' E-F-प्रते / 3. 'जाणयसिलेसा' E-प्रते, 'जाणयसिलेसो' C प्रते, 'जाणगसिलेसो' F-H-प्रते, अत्र पुनः A-B-D-G-प्रतपाठः /