SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 40 for श्रीगच्छाचारप्रकीर्णकम् . 'आर्यासंसर्ग' एकान्तसाध्वीपरिचयादिकमित्यर्थः, किंभूतं ? - ‘अग्निविषसदृशं' यथाऽग्निना सर्वं भस्मसात्स्यात्तथाऽऽसां संयोगे चारित्रं भस्मसाद्भवति, यथा च तालपुटविषं जीवानां प्राणनाशकरं भवति तथाऽऽसां परिचयश्चारित्रप्राणनाशकरः, कूलवालुकवत् / तथा 'आर्यानुचरः' आर्या=साध्वी तस्या अनुचरः=किङ्करः, कः ? - 'साधुः' मुनिः 'लभते' प्राप्नोति 'अकीर्ति' असाधुवादं यथा-'अहो साधुत्वं अहो तपोधनत्वं अहो त्यक्तगृहगृहिणीसङ्गत्वं अहो शिवमार्गसाधकत्वं अहो इन्द्रियबाधकत्वमित्याद्यवर्णवादरूपं 'खु' यस्मादर्थे 'अचिरेण' इति स्तोककालेन, अतो हे मुनयः ! आर्यासंसर्ग वर्जयतेति // 63 // थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स | अज्जासंसग्गीए, जणजंपणयं हविज्जाहि ||64|| स्थविरस्य तपस्विनो वा, बहुश्रुतस्य वा प्रमाणभूतस्य / आर्यासंसर्या जनवचनीयता भवेत् // 64 // व्याख्या - 'स्थविरस्य' वृद्धस्य 'तपस्विनो वा' अष्टमादितपोयुक्तस्य वा 'बहुश्रुतस्य' अधीतबह्वागमस्य वा 'प्रमाणभूतस्य' सर्वजनमान्यस्य एवंविधस्य साधोरपि 'आर्यासंसर्गेण' बहुतमसाध्वीपरिचयेन 'जणजपणयंति लोकमध्येऽपकीर्तिलक्षणं भवेत् यथा-'एष सुलक्षणो न' इति // 64 // किं पुण तरुणो अबहुस्सुओ अ न य वि हु विगिट्टतवचरणो / अज्जासंसग्गीए, जणजपणयं न पाविज्जा ? ||65|| किं पुनस्तरुणोऽबहुश्रुतश्च न चापि हु विकृष्टतपश्चरणः / आर्यासंसर्या जनवचनीयतां न प्राप्नुयात् ? // 65 // व्याख्या - किं पुनः 'तरुणः' युवा, किंभूतः ? - 'अबहुश्रुतः' आगमपरिज्ञानरहितः, चकारान्न देशादौ मुख्यत्वेन प्रवृत्तः, न चापि हु विकृष्टतपश्चरणो=न दशमादितपःकर्ता, एवंविधो मुनिः 'आर्यासंसा' निष्कारणं मुण्ड्या सह विकथापरिचयादिकरणेन 'जनवचनीयतां' लोकापवादलक्षणां किं न प्राप्नुयात् ?, अपि तु 1. 'हवेज्जाहि' D-E-F-G-H-प्रते / - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy