________________ श्रीवानर्षिगणिविहितवृत्तियुतम् // साध्व्यानीतमशनादिकमित्यर्थः सहसेत्युत्सर्गमार्गेण न परिभुज्यते, अपवादे तु परिभुज्यते, जङ्घाबलक्षीणश्रीअन्यकापुत्राचार्यादिवत्, हे गौतम ! 'गच्छ:' गणः 'तयंति सः मया भणितः, आर्षत्वादत्र विभक्तिपरिणामः / अस्या गाथाया व्याख्यानमन्यदपि जिनाज्ञापूर्वकं कर्त्तव्यमिति // 61 // अथोत्सर्गेण जल्पनपरिचयादिकं निवारयन्नाह - जत्थ य अज्जाहिं समं थेरावि न उल्लवंति गयदसणा | न य झायंति थीणं, अंगोवंगाइं तं गच्छं // 62|| यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः / न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः // 62 / / व्याख्या - यत्र गणे 'आर्याभिः' साध्वीभिः 'समं' सार्धं चकाराद्रण्डागतकान्तादिभिः स्त्रीभिः सार्धं च, तरुणाः साधव आस्ताम्, स्थविरा अपि 'नोल्लपन्ति' न निष्कारणमालापसंलापादिकं कुर्वन्तीत्यर्थः, स्थविरास्त्रिधा-तत्र षष्टिवर्षजाता जातिस्थविराः 1, समवायधराः श्रुतस्थविराः 2, विंशतिवर्षपर्यायाः पर्यायस्थविराः 3, किंभूताः ? - गताः प्रनष्टा दशनाः दन्ता येषां ते गतदशनाः, 'न ध्यायन्ति' न सरागदृष्ट्या चिन्तयन्तीत्यर्थः, 'स्त्रीणां' नारीणां, कानि ? - 'अङ्गोपाङ्गानि' तत्र अङ्गान्यष्टौ बाहुद्वय 2 ऊरुद्वय 4 पृष्ठि 5 शिरो 6 हृदयो 7 दर 8 लक्षणानि, उपाङ्गानिकर्णनासिकादीनि, चकारान्न विलोकयन्ति, कदाचिद् दृष्ट्वाऽपि नान्यस्मिन् वर्णयन्ति स गच्छ इति // 62 // किञ्च - वज्जेह अप्पमत्ता !, अज्जासंसग्गि अग्गिविससरिसी / अज्जाणुचरो साहू, लहइ अकित्तिं खु अचिरेण ||63 / / वर्जयताप्रमत्ताः ! आर्यासंसर्गीः अग्निविषसदृशीः / आर्यानुचरः साधुर्लभतेऽकीर्तिं खु अचिरेण // 63 // व्याख्या - 'वर्जयत' मुञ्चत 'अप्रमत्ताः' प्रमादवर्जिताः सन्तो यूयं, कम् ? - 1. 'उल्लविंति' A-D-E-F-G-H-प्रते /