________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् . शीतोष्ण 4 दंशा 5 ऽचेला 6 ऽरति 7 स्त्री 8 चर्या 9 नैषेधिकी 10 शय्या 11 ऽऽक्रोश 12 वध 13 याञ्चा 14 ऽलाभ 15 रोग 16 तृणस्पर्श 17 मल 18 सत्कार 19 प्रज्ञा 20 ऽज्ञान 21 सम्यक्त्व 22 लक्षणा द्वाविंशतिरप्यवतरन्ति, यथा दर्शनमोहे सम्यक्त्वपरीषहः, तदुदये तस्य भावात् 1, प्रज्ञाऽज्ञाने द्वे ज्ञानावरणे 3, अलाभोऽन्तराये 4, आक्रोशारतिस्त्रीनैषेधिक्यः अचेलयाञ्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति 11, क्षुत्पिपासा 2 शीतोष्ण 4 दंश 5 चर्या 6 शय्या 7 मल 8 वध 9 रोग 10 तृणस्पर्श 11 एते एकादश वेदनीयोदये भवन्ति, शेषेषु दर्शनावरणनामायुर्गोत्रेषु नास्त्यवतारः परीषहाणामिति / तथा नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः संभवन्ति, पुनर्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति, न तस्मिन् समये उष्णत्वं वेदयति यस्मिन्नुष्णं तस्मिन् शीतं न, तथा यस्मिन् चर्यां वेदयति तस्मिन् नैषधिकीं न, यस्मिन् नैषेधिकी तस्मिन् चर्यां न वेदयतीति। सूक्ष्मसंपराये=दशमगुणस्थाने क्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति, शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्चेति / तथा उपशान्तमोहे एकादशगुणस्थाने क्षीणमोहे-द्वादशगुणस्थाने छद्मस्थवीतरागे त एव चतुर्दश, यतः सप्तानां चारित्रमोहनीयप्रतिबद्धानां मोहनीयस्य क्षपितत्वेनोपशमितत्वेन वा दर्शनमोहनीयप्रतिबद्धस्य एकस्य च तत्रासम्भवादिति पूर्ववत्, द्वादश पुनर्वेदयति ते, सयोग्ययोगिरूपे एकादश परीषहाः संभवन्ति, यथा-क्षुत् 1 पिपासा 2 शीतो 3 ष्ण 4 दंश 5 चर्या 6 वध 7 मल 8 शय्या 9 रोग 10 तृणस्पर्श 11 रूपाः, जिने वेद्यस्य संभवात् न यान्ति, शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्च नव च पुनर्वेदयति, धिया राजन्त इति धीराः वज्रस्वामिवत्, नापि स्तब्धाः नाहङ्कारपराः स्कन्धकवत्, नापि लुब्धाः=नाहारोपधिपात्रादिगृद्धा धन्यमुनिवत्, न गौरविता:=न गौरवत्रिकाऽऽसक्ता मथुरामङ्गुशिष्यवत्, न विकथाशीला:=न विरुद्धकथाकथनस्वभावा हरिकेशमुनिवत् // 52 // खंते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे | दसविहसामायारी-आवस्सग-संजमुज्जुत्ते ||53||