SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 34 for श्रीगच्छाचारप्रकीर्णकम् // क्षान्ता दान्ता गुप्ताः, मुक्ता वैराग्यमार्गमालीनाः / दशविधसामाचारी-आवश्यक-संयमोद्यताः // 53 // व्याख्या - 'क्षान्ताः' क्षमायुक्ता गजसुकुमालवत्, 'दान्ताः' दमितेन्द्रियाः शालिभद्रादिवत्, ‘गुप्ताः' नवब्रह्मचर्यगुप्तिमन्तः श्रीस्थूलभद्रवत्, ‘मुक्ताः' न लोभयुक्ता जम्बूस्वाम्यादिवत्, 'वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अतिमुक्तककुमारकालोदाय्यादिवत्, दशविधसामाचार्याम्=उक्तलक्षणायामुद्युक्ताः, अवश्यं कर्त्तव्यमावश्यकं यद्वा गुणानां आ समन्ताद्वश्यं करोतीत्यावश्यकं, गुणशून्यमात्मानं आ समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं तत्रोद्युक्ताः तत्पराः // 53 // खर-फरुस-कक्साए, अणिठ्ठदुट्ठाइ निगुरगिराए / निब्भच्छण-निद्धाडणमाईहिं न जे पउस्संति ||54|| खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा / निर्भत्सननिर्धाटनादिभिः न ये प्रद्विषन्ति // 54 // व्याख्या - खरपरुषकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठरगिरा निर्भर्त्सननिर्धाटनादिभिश्च, मोऽलाक्षणिकः, 'ये' मुनयो 'न प्रद्विष्यन्ति' न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्र खरा=रे मूढ ! रे अपण्डित! इत्यादिका, परुषा=रे प्रमादिन् ! रे कुशील ! रे सामाचारीभञ्जक ! इत्यादिका, कर्कशा=रे जिनाज्ञाभञ्जक ! रे उत्सूत्रभाषक ! रे व्रतभञ्जक ! इत्यादिका, अनिष्टा=रे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय ! इतो व्रज, रे वीरवचनोल्लङ्घक! स्वस्थानं कुरु इत्यादिका, दुष्टा=रे आचारतस्कर ! रे जिनप्रवचननगरप्राकारच्छिद्रकर्त्तः ! रे जिनागमकोशार्थरत्नचौर ! इत्यादिका, निष्ठुरा=रे सूत्रार्थोभयप्रत्यनीक ! रे निह्नवकुशीलसङ्गकर्तः ! रे जिनाज्ञारामच्छेदक ! इत्यादिका, निर्भर्त्सनम् अङ्गल्यादिना तर्जनं, निर्धाटनं वसतिगणादिभ्यो निष्काशनं, आदिशब्दात्तच्चिन्ताकरणादिकं, यद्वा प्रवाहेणैकार्थिका एते शब्दाः, यद्वाऽन्योऽपि यः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति // 54 // - - -- - - - - - - - - - - - - - - - - 1. '०दुट्ठाए' D-E-F-G-H-प्रतपाठः, अत्र A-B-C-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy