________________ ___pcr श्रीगच्छाचारप्रकीर्णकम् // ऽनुशयः पश्चात्तापः पश्चादपि यत्र स व्यनुशयस्तेन 'व्यनुशयेन' सदा गतपश्चात्तापेनेत्यर्थः, हे गौतम ! स गच्छो न भवतीति // 50 // गच्छो महाणुभावो, तत्थ वसंताण निज्जरा विउला / सारण-वारण-चोअण-माईहिं न दोसपडिवत्ती ||51| गच्छो महानुभावस्तत्र वसतां निर्जरा विपुला। स्मारणावारणाचोदनादिभिर्न दोषप्रतिपत्तिः // 51 // व्याख्या - 'गच्छो' मुनिवृन्दरूपः, किंभूतः ? - महान् अनुभावः=प्रभावो यस्यासौ महानुभावः, 'तत्र' गच्छे 'वसतां' वासं कुर्वतां 'निर्जरा' देशकर्मक्षयरूपा, उपलक्षणत्वात्सर्वकर्मक्षयरूपो मोक्षोऽपि भवतीति शेषः, किंभूता ? - ‘विपुला' विस्तीर्णा, तथा यत्र च वसतां सारण-वारण-नोदनादिभिः पूर्वोक्तशब्दार्थैः, मोऽलाक्षणिकः, 'दोषप्रतिपत्तिः' दोषागमो न भवति // 51 // गुरुणो 'छंदणुवत्ती, सुविणीए जिअपरीसहे धीरे / न वि थद्धे न वि लुद्धे, न वि गारविए, विगहसीले ||52|| गुरोः छन्दानुवर्तिनः, सुविनीता जितपरीषहा धीराः / नापि स्तब्धा नापि लुब्धा, नापि गौरविला विकथाशीलाः // 52 // व्याख्या - 'गुरोः' स्वाचार्यस्य 'छन्दोऽनुवृत्तयः' अभिप्रायानुचारिणो, न स्वाभिप्रायचारिणः, 'सुविनीताः' शोभनविनययुक्ताः, जिताः पराजिताः परीषहाः= शीतोष्णा यैस्ते जितपरीषहाः, उक्तं चाचाराङ्गनिर्युक्तौ "इत्थीसक्कारे परीसहा य दो भावसीयला एए / सेसा वीसई उण्हा परीसहा होंति णायव्वा // 1 // जे तिव्वपरीणामा परीसहा ए भवंति उण्हा उ / जे मंदपरीणामा परीसहा ते भवे सीया // 2 // " [आचा० ३/नि.२०२-२०३/] तथा च ज्ञानावरण 1 वेदनीय 2 मोहनीया 3 ऽन्तरायेषु 4 क्षुत्-पिपासा 2 1. 'छंदणुक्ते' c-प्रते, 'छंदणुवित्ती' A-B-D-E-आदि /