________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् . ___ व्याख्या - प्रज्वलितं 'हुतवहं' वैश्वानरं 'दुट्ठ'मिति 'दुष्टं' निर्दयं, यद्वा ‘द?'मिति 'दृष्ट्वा' विलोक्य 'निःशङ्कः' त्यक्तशङ्कः 'तत्र' हुतवहे 'प्रविश्य' प्रवेशं विधाय 'आत्मानं' स्वयं 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, परं 'नो' नैव कुशीलस्य 'अल्लिए'त्ति कुशीलो दूरे तिष्ठतु, तदाश्रितस्यापि सङ्गं न कुर्यात्, यद्वा कुशीलस्य उपलक्षणत्वादगीतार्थस्य 'अल्लिए'त्ति सङ्गं न कुर्यात्, अनन्तसंसारहेतुकत्वात्, उक्तञ्च श्रीमहानिशीथद्वितीयाध्ययनप्रान्ते "जीवो संमग्गमाइण्णो, घोरवीरतवं चरो / अचयंतो इमे पंच, कुज्जा सव्वं निरत्थयं // 1 // पासत्थोसन्नहाछंदे, कुसीले सबले तहा / दिट्ठीएवि इमे पंच, गोयमा ! न निरिक्खए // 2 // " [महा० 2/162-163] सुमतिवदिति // 49 // अथ पूर्वोक्तगच्छस्वरूपमाह - पजलंति जत्थ धगधगस्स गुरुणा वि चोइए सीसा | रागदोसेण वि अणुसएण, तं गोयम ! न गच्छं ||50|| प्रज्वलन्ति यत्र धगधगायमानं गुरुणापि नोदिते शिष्याः / रागद्वेषेणापि अनुशयेन स गौतम ! न गच्छः // 50 // व्याख्या - प्रज्वलन्ति अग्निवत् यत्र गणे कथं ? - धगधगायमानं यथा स्यात्तथा प्राकृतत्वाद्विभक्तिपरिणामः, 'गुरुणा' स्वाचार्येणापि, अपिशब्दाद्गणावच्छेदस्थविरादिनाऽपि 'चोइए'त्ति भवादृशामयुक्तमेतदित्यादिना प्रेरिताः, के ? - "शिष्याः' स्वान्तेवासिनः, काभ्यां प्रज्वलन्ति ? - रागद्वेषाभ्यां, प्राकृतत्वात्सूत्र एकवचनं, अपिशब्दश्चशब्दार्थे, 'अनुशयेन' च क्रोधानुबन्धेन, निरन्तरक्रोधकरणेनेत्यर्थः, यद्वा प्रज्वलन्ति, केन ? - रागद्वेषेण, किंभूतेन? - 'विअणुसएण'त्ति विगतो=गतो- - - - - -- - - - - - - - - - - - - - - - - - - - - - 1. 'अदिन्नए' इति पूर्वमुद्रिते B-प्रते च, अत्र A-प्रतपाठः / 2. 'धगधगधगस्स' H-प्रते / 3. 'सीसे' C-D E-F-G-H, अत्र A-B-आदिप्रतपाठः /