SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् // ___ 'परमार्थतः' तत्त्वतः तद्विषं न भवति, 'अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं 'निर्विघ्नं' विघ्नविवर्जितं 'यद्' यस्मात् कारणात् न त=विषं मारयति=न प्राणत्यागं करोति, अतः कथमपि 'मृतोऽपि' मरणं प्राप्तोऽपि 'अमृतसम एव' जीवन्निव भवतीत्यर्थः, शाश्वतसुखहेतुत्वादिति / गीतार्थस्येत्यत्र चतुर्भङ्गी यथा-संविग्ना नाम एके नो गीतार्थाः 1, न संविग्ना नाम एके गीतार्थाः 2 संविग्ना नाम एके गीतार्था अपि 3, न संविग्ना नाम एके नो गीतार्थाः 4, तत्र न प्रथमभङ्गस्था धर्माचार्याः आगमपरिज्ञानाभावात् 1, द्वितीयभङ्गस्था अपि न धर्माचार्याः, चारित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून् वन्दन्ते साधंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति 2, तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात् / ननु एवंविधास्तु गणधरादय एव भवन्ति, न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां ?, उच्यते-वर्तमानकाले यत्सूत्रं वर्त्तते तस्य गुरुपरम्परया गृहीतार्थाः विनिश्चितार्थाः गीतार्था भवन्ति, दुःषमासेवार्त्तसंहननाद्यनुभावतो वीर्यमगोपयन्तः संविग्ना एव, अतो न तेषां धर्माचार्यत्वं व्यभिचरतीति 3, चतुर्थभङ्गस्था अपि न धर्माचार्याः, ज्ञानक्रियाशून्यत्वात् केवललिङ्गमात्रोपजीवित्वाच्चेति 4 // 45 // अथोक्तविपरीतमाह - अगीयत्थस्स वयणेणं, अमयंपि न घुटए | जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ||46|| परमत्थओ न तं अमयं, विसं हालाहलं खु तं / न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ||47|| अगीतार्थस्य वचनेनामृतमपि न पिबेत् / येन न तद् भवेदमृतं यदगीतार्थदेशितम् // 46 / / परमार्थतो न तदमृतं, विषं हालाहलं खु तत् / न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् // 47 // 1. 'अग्गीयस्स' F-G-प्रतपाठः / 2. 'अमियंपि' - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy