________________ for श्रीगच्छाचारप्रकीर्णकम् // येऽनधीतपरमार्थाः, गौतम ! संयता भवन्ति / तस्मात्तानपि विवर्जयेत् दुर्गतिपथदायकान् / / 3 / / ___ व्याख्या - 'ये' मुनयः अनधीताः अनभ्यस्ताः परमार्थाः ये आश्रवाः= कर्मबन्धस्थानानि ते परिश्रवाः कर्मनिर्जरास्थानानि 1, ये एव परिश्रवाः निर्जरास्थानानि तान्येवाश्रवाः कर्मबन्धस्थानानि 2, येऽनाश्रवास्तेऽप्यपरिश्रवाः कर्मबन्धस्थानानि कौङ्कणसाध्वादिवत् 3, अपरिश्रवाः कर्मबन्धस्थानानि तेऽनाश्रवा=न कर्मबन्धस्थानानि कणवीरलताभ्रामकक्षुल्लकस्येव 4, इत्याद्यागमपरिज्ञानरूपा यैस्तेऽनधीतपरमार्थाः हे गौतम ! संयता भवन्ति, तस्मात्तानपि ‘विवर्जयेत्' दूरतस्त्यजेत्, किंभूतान् ? - 'दुर्गतिपथदायकान्' तिर्यग्-नरक-कुमानुष-कुदेवमार्गप्रापकानित्यर्थः // 43 // अथ गीतार्थोपदेशः सर्वोऽपि सुखावहो भवतीत्याह - गीअत्थस्स वयणेणं, विसं हालाहलं पिवे | निव्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ||44|| परमत्थओ विसं नो तं, अमयरसायणं खु तं / निविग्घं जं न तं मारे, मओऽवि अमयस्समो ||45|| गीतार्थस्य वचनेन विषं हालाहलं पिबेत् / निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् // 44 // परमार्थतो विषं न तदमृतरसायनं खु तत् / निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः // 45 // व्याख्या - 'गीतार्थस्य' अधीतगुरुपार्श्वसूत्रार्थस्य 'वचनेन' उपदेशेन 'विषं' गरलं, किंभूतं ? - ‘हालाहलं' उत्कटं 'पिबेत्' गलरन्ध्रे पातयेत्, विनेय इति शेषः, किंभूतः ? - 'निर्विकल्पः' सर्वथा गतशङ्कः, भक्षयेच्च विषगुटिकादिकं य=विषगुटिकादिकं 'तत्क्षणे' भक्षणप्रस्तावे समुपद्रवेत्, पञ्चत्वं प्रापयेदित्यर्थः // 44 // - - - - - - - -- -- - - - - - - - - - - - - - - - - - - - 1. 'तक्खणा' C-D-F-G-H-प्रते, अत्र पुनः A-B-प्रतपाठः /