________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् ng धीर! सक्षेपेण 'निशामय' आकर्णयेति // 40 // गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए / अक्खलियचरित्ते सययं, रागदोसविवज्जिए ||41|| निट्ठविअअट्ठमयट्ठाणे, सोसिअकसाए जिइंदिए / विहरिज्जा तेण सद्धि तु, छउमत्थेणवि केवली ||42|| गीतार्थो यो सुसंविज्ञः अनालस्यी दृढव्रतः / अस्खलितचारित्रः सततं, रागद्वेषविवर्जितः // 41 // निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः / विहरेत् तेन सार्द्धं तु छद्मस्थेनापि केवली // 42 // व्याख्या - गीतं सूत्रमर्थस्तस्य व्याख्यानं तवयेन युक्तो गीतार्थः यः, 'सुसंविग्गे'त्ति अत्यर्थं संवेगवान्, न विद्यते आलस्यं वैयावृत्त्यादौ यस्यासौ 'अनालस्यः' आलस्यरहित इत्यर्थः, दृढानि=सुनिश्चलानि व्रतानि महाव्रतलक्षणानि यस्यासौ दृढव्रतः, अस्खलितम् अतीचाररहितं चारित्रं सप्तदशभेदं यस्यासौ अस्खलितचारित्रः 'सततं' अनवरतं 'रागद्वेषविवर्जितः' तत्र मायालोभात्मको रागः क्रोधमानात्मको द्वेष इति // 41 // __निष्ठापितानि क्षयं नीतानि अष्टौ मदस्थानानि जाति 1 कुल 2 रूप 3 बल 4 लाभ 5 श्रुत 6 तपो 7 विभव 8 लक्षणानि येनासौ निष्ठापिताष्टमदस्थानः, शोषिताः दुर्बलीकृताः कषायाः सभेदाः क्रोधमानमायालोभा येनासौ शोषितकषायः, जितानि आत्मवशीकृतानि इन्द्रियाणि श्रोत्र 1 दृग् 2 नासा 3 जिह्वा 4 स्पर्शन 5 मनो 6 लक्षणानि येनासौ जितेन्द्रियः 'विहरेत्' विहारं कुर्यादित्यर्थः, तेन छद्मस्थेनापि सार्धं 'केवली' केवलज्ञानी // 42 // अथोक्तविपरीतैः सार्धं विहारो न विधेय इत्याह - जे अणहीयपरमत्था, गोअमा ! संजए भवे / ___ तम्हा ते विवज्जिज्जा, दुग्गईपंथदायगे ||43|| 'सुसिय०' A-D-प्रते, 'समिय०' B-C-E-F-G-H-प्रते / - - - - - - - - - 1.