________________ 26 for श्रीगच्छाचारप्रकीर्णकम् // ___ व्याख्या - जओत्ति भिन्नपदं यतो भणितं-'सइरी'त्ति स्वेच्छाचारिणो भवन्ति 'अणविक्खयाइ'त्ति शिक्षारहितत्वेन यथा भृत्यवाहनादयः, तत्र भृत्याः सेवकाः वाहनानि=हस्त्यश्ववृषभमहिषादीनि लोके, तथा विनेयाः गुरूणां कार्यं कार्यं प्रति पृच्छाः प्रतिपृच्छास्ताभिः प्रतिपृच्छाभिः 'चोयणे'ति प्राकृतत्वाद्विभक्तिपरिणामः चोदनादिभिश्च विनेति गम्यं, स्वेच्छाचारिणो भवन्तीत्यर्थः, यस्मात्स्वेच्छाचारिणो भवन्ति तस्मात्प्रतिपृच्छादिभिराचार्यो विनेयानां तुशब्दान्महत्तरा स्वशिष्यणीनां 'सदा' सर्वकालं 'भयइ' त्ति धातूनामनेकार्थत्वात् 'सत्यापयति' शिक्षां ददातीत्यर्थः // 38 // किञ्च - जो ऊ पमायदोसेणं, आलस्सेणं तहेव य / सीसवग्गं न चोएइ, तेण आणा विराहिया ||39|| यस्तु प्रमाददोषेणालस्येन तथैव च / शिष्यवर्गं न प्रेरयति तेनाज्ञा विराधिता // 39 // व्याख्या - 'यो' गणी तुशब्दादुपाध्यायगणावच्छेदादिः प्रमादश्च=निद्रादिः द्वेषश्च मत्सरः दोषश्च वा स्वशिष्ये रागादिकः प्रमादद्वेषं प्रमाददोषं वा तेन, यद्वा प्रमादरूप एव यो दोषः कुलक्षणत्वं तेन प्रमाददोषेण, आलस्येन तथैव च, चकारान्मोहावज्ञादिप्रकारेण, 'शिष्यवर्ग' अन्तेवासिवृन्दं न प्रेरयति संयमानुष्ठान इति शेष: 'तेन' आचार्येण 'आज्ञा' जिनमर्यादा 'विराधिता' खण्डितेत्यर्थः // 39 // संखेवेणं मए सोम्म !, वन्नियं गुरुलक्खणं / गच्छस्स लक्खणं धीर !, संखेवेणं निसामय ||40|| संक्षेपेण मया सौम्य ! वर्णितं गुरुलक्षणम् / गच्छस्य लक्षणं धीर ! संक्षेपेन निशामय // 40 / / व्याख्या - 'सङ्क्षपेण' विस्तराभावेन मया 'हे सौम्य !' हे विनेय ! 'वर्णितं' प्ररूपितमित्यर्थः गृणाति वदति तत्त्वमिति गुरुस्तस्य लक्षणं=चिह्नम् / अथेति शेषः 'गच्छस्य' मुनिवृन्दस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे 1. 'सोम' F-प्रते / - - - - - - - - - - - - -