________________ ___for श्रीवानर्षिगणिविहितवृत्तियुतम् .. वहितवृत्तियुतम् 06 _ __21 किञ्च - उम्मग्गठिओ एक्को वि नासए भव्वसत्तसंघाए / तं मग्गमणुसैरंतं, जह कुत्तारो नरो होइ ||30|| उन्मार्गस्थित एकोऽपि नाशयति भव्यसत्त्वसङ्घातान् / तन्मार्गमनुसरन्तं यथा कुतारो नरो भवति // 30 // व्याख्या - ‘एकोऽपि' अद्वितीयोऽपि सूरिः साधुर्वा 'उन्मार्गस्थितः' कुमतिकदाग्रहग्रस्तो नाशयति, संसारसागरे पातयतीत्यर्थः ‘भव्यसत्त्वसङ्घातं' भवसिद्धिकजन्तुसमूह, तन्मार्ग 'अनुसरन्तं' आश्रयन्तं, यथेति दृष्टान्तोपदर्शने 'कुतारः' कुत्सिततारको नरो भवति स बहून् पृष्ठलग्नान् जन्तुसमूहान् नद्यादौ बोलयति, आत्मानमपि च बोलयतीति // 30 // अथोन्मार्गपरम्परालग्नानामाचार्याणां मुनीनां च किं फलं भवति ? इत्याह - उम्मग्गमग्गसंपढिआणं , साहूण गोअमा ! नूनं / संसारों अ अणंतो, होइ य सम्मग्गनासीणं ||31|| उन्मार्गमार्गसम्प्रस्थितानां साधूनां गौतम ! नूनम् / संसारश्चानन्तो भवति सन्मार्गनाशिनाम् // 31 // व्याख्या - उन्मार्गाः गोशालकबोटिकनिह्नवादयस्ते तेषां मार्ग:=परम्परा तस्मिन् यद्वा उन्मार्गरूपो यो मार्गस्तस्मिन् स्थितानां 'साधूनां' मुनिवेषाभासकानां, उपलक्षणत्वात्तदाचार्याणामपि हे 'गौतम !' हे इन्द्रभूते ! 'नूनं' निश्चितं 'संसारः' चतुर्गत्यात्मकः, न विद्यतेऽन्तः पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेकदुःखसूचकः, किंभूतानां ? - 'सन्मार्गनाशिनां' जिनोक्तपथाच्छादकानां, महानिशीथोक्तमुनिचन्द्रसाधुवत् // 31 // ___ अथ कोऽपि कदाचित्प्रमादपरत्वेन न जिनोक्तक्रियां करोति परन्तु भव्यानां - - - -- 1. '०ए सव्व०' F-प्रते / 2. '०मणुसरंते' A-आदिषु / 3. 'कुत्तारू' A-D-F-G-प्रतिषु / 4. '०ण सूरीण' A-D-F-G-H-प्रतपाठः / 5. 'णूणं' A-D-आदिषु / 6. 'होई स' E-प्रते / - - - - - - - - - - - - - - - - - - - - -