________________ 20 fon श्रीगच्छाचारप्रकीर्णकम् - गजायमानं 'प्रकाशयति' भव्यान् दर्शयतीत्यर्थः, 'आज्ञां' पारगतोक्तमर्यादां ‘अतिक्रमन्' उल्लङ्घयन् पुनः सः 'कापुरुषः' पुरुषाधमः, 'न सत्पुरुषः' न प्रधानपुरुषः, जमालिवदिति // 27 // अथ कीदृशा आचार्या आज्ञातिक्रामका भवन्ति ?, इत्याह - भट्ठायारो सूरी 1, भट्ठायाराणुविक्खओ सूरी 2 / उम्मग्गठिओ सूरी 3, तिन्निवि मग्गं पणासंति ||28|| भ्रष्टाचारः सूरिभ्रष्टाचारोपेक्षकः सूरिः / उन्मार्गस्थितः सूरिस्त्रयोऽपि मार्ग प्रणाशयन्ति // 28 // व्याख्या - भ्रष्टः सर्वथा शिथिलीभूतः आचारो=ज्ञानाचारादिर्यस्य स भ्रष्टाचारः 'सूरिः' अधर्माचार्यः 1, भ्रष्टाचाराणां मुक्तसंयमव्यापाराणां मुनीनामुपेक्षकः, प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरिः' मन्दधर्माचार्यः 2, 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरिः' अधमाधमो नामाचार्यः 3, एते त्रयोऽपि 'मार्ग' ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं विनाशयन्तीत्यर्थः // 28 // एतान् यः सेवते तस्य फलं दर्शयन्नाह - उम्मग्गठिए सम्मैग्गनासए जो उ सेवए सूरिं | निअमेणं सो गोअम ! अप्पं पाडेइ संसारे ||29|| उन्मार्गस्थितान् सन्मार्गनाशकान् यस्तु सेवते सूरीन् / नियमेन स गौतम ! आत्मानं पातयति संसारे / / 29 / / व्याख्या - 'उन्मार्गस्थितान्' आगमविरुद्धप्ररूपकान् 'सन्मार्गनाशकान्' जिनोक्तमार्गदूषकान् ‘य:' भव्यसत्त्वः सेवते, तदुक्तमनुष्ठानं कुरुत इत्यर्थः, तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि 'मिति 'सूरीन्' आचार्यान् प्राकृतत्वादेकवचनम्, 'नियमेन' निश्चयेन स हे गौतम ! 'आत्मानं' स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः // 29 // 1. युवेक्खओ' - A-D-F-G-H-प्रतपाठः, अत्र पुनः वृत्तिहस्तादर्शानुसारेण B-c-प्रत्यनुसारेण च / 2. 'सम्मत्त०' E-F |