SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् // तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ / आणं अइक्कमंतो, सो काउरिसो, न सप्पुरिसो ||27|| विधिना यस्तु चोदयति, सूत्रमर्थं च ग्राहयति / स धन्यः स च पुण्य एव, स बन्धुर्मोक्षदायकः / / 25 / / स एव भव्यसत्त्वानां, चक्षुर्भूतो व्याहृतः / दर्शयति यो जिनोद्दिष्ट-मनुष्ठानं यथास्थितम् // 26 / / तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशयति / आज्ञामतिक्रामन् सः, कापुरुषः न सत्पुरुषः // 27 // व्याख्या - 'विधिना' आगमोक्तन्यायेन यः आचार्यः तुशब्दादुपाध्यायादिकः 'चोएइ'त्ति नोदयति-प्रेरयति नोदन-स्मारण-वारण-प्रतिनोदनादिभिः शिष्याणामिति, 'सूत्रं' आचाराङ्गादिकं उत्सर्गा 1 ऽपवादो 2 त्सर्गापवादिका 3 ऽपवादौत्सर्गिको 4 त्सर्गोत्सर्गिका 5 ऽपवादापवादिकात्मकं 6, तथा सूत्रपाठनानन्तरं तस्यैव नियुक्तिभाष्यचूर्णिसंग्रहणीवृत्त्यादिरूपं परम्परात्मकमर्थं 'ग्राहयति' शिक्षयति, चकारात् नैगमसङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढैवंभूतान् सप्त नयान् ज्ञापयति स आचार्यः 'धन्यः' सूत्रधनदायकत्वात्, स च 'पुण्यः' अर्थदानपुण्यकृत्त्वात्, चकाराज्जिनाज्ञाप्रतिपालकः, स बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात्, 'मुक्खदायमो' ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे दृढत्वं दृढत्वेन कर्माभावस्ततो मोक्षदायक इति // 25 // ___ 'स एव' अनन्तरोक्त एव भव्यसत्त्वानां' मोक्षगमनयोग्यजन्तूनां 'चक्षुर्भूतः' नेत्रतुल्यः 'व्याहृतः' कथितः जिनादिभिः 'दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति 'यः' आचार्यशिरोमणिः 'जिनोद्दिष्टं' जिनोक्तं 'अनुष्ठानं' मोक्षपथप्रापकं रत्नत्रयं 'यथास्थितं' यादृशं स्यात्तादृशम् // 26 // तीर्थ चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः= तुल्यः, देशसमत्वमिदं विज्ञेयम्, अन्यथा क्व तीर्थकरत्वं क्वाचार्यत्वमिति, कः ?सूरिः अनेकातिशयसंयुक्तो गौतमादिसदृश आचार्यः 'सम्यग्' इति सर्वशक्त्या यो 'जिनमतं' जगत्प्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकं सप्तनयात्मकं कुमततरु
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy