SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 18 for श्रीगच्छाचारप्रकीर्णकम् ng द्रव्यलिङ्गधारीत्यर्थः, तथा संयम:-पृथिव्यादिः सप्तदशलक्षणः, यथा पृथिवी 1 भू 2 वह्नि 3 वायु 4 तरु 5 द्वि 6 त्रि 7 चतुः 8 पञ्चेन्द्रियाणां 9 मनोवाक्कायैः करणकारणानुमतिभिः संरम्भसमारम्भारम्भवर्जनमिति जीवसंयमः, पुस्तकादीन् प्रतिलेखनापूर्वकं धारयतोऽजीवसंयम: 10, प्रेक्ष्य चक्षुषा शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः 11, पार्श्वस्थादीनामुपेक्षणमुपेक्षासंयमः 12, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः 13, अनुपकारकं वस्तु विधिना परिष्ठापयतः परिष्ठापनासंयमः 14, द्रोहेादिभ्यो निवृत्तिर्धर्मध्यानादिषु प्रवृत्तिर्मनःसंयमः 15, एवं वाक्काययोरपि 16, 17, तस्य योगः प्रतिलेखनादिव्यापारस्तेन निस्सारः, चर्वितताम्बूलवदिति, यद्वा 'संजम०' निर्गतं सारं स्वर्गापवर्गफलं यस्य स निस्सारः, केन ?-संयमश्च योगश्च योगोद्वहनं संयमयोगं तेन, बाह्यसंयमयोगोद्वहनहेतुत्वादिति कुलं गृहं ग्राम=सकरं नकरंगो 1 महिषी 2 उष्ट्र 3 च्छाग 4 च्छगली 5 तृण 6 पलाल 7 बूरक 8 काष्ठा ९-ऽङ्गार 10 क्षेत्र 11 गृह 12 दूरदेशव्यवसायि 13 बलीवर्द 14 घृत 15 चर्म 16 भोजन 17 सेइमाणक 18 रूपाष्टादशकररहितं, राज्यं सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा-कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं ‘पयहिय'त्ति त्यक्त्वा पुनरिति शेषः ‘यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हुः' निश्चितं 'ममत्वं' ममैतदिति मन्यते 'सः' पूर्वोक्तः केवलं 'लिङ्गधारी' वेषमात्रधारी, संयमः पञ्चाश्रवविरमण 5 पञ्चेन्द्रियनिग्रह 10 कषायचतुष्टयजय 14 दण्डत्रयविरति 17 लक्षणस्तस्य योगो व्यापारस्तेन निस्सारो गतसार इति // 24 // पुनर्गाथात्रयेणोत्तमाचार्यस्वरूपमाह - विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहई | सो धण्णो, सो अ पुण्णो अ, स बंधू मुक्खदायगो ||25|| स एव भव्वसत्ताणं, चक्खूभूए विआहिए / दंसेइ जो जिणुद्दिद्वं, अणुट्ठाणं जहट्ठिअं ||26|| - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'बाध्यसंयम०' इति पूर्वमुद्रिते, अत्र A-B-C प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy