SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ - श्रीवानर्षिगणिविहितवृत्तियुतम् . कुल-गाम-नगर-रज्जं, पयहिय जो तेसु कुणइ हु ममत्तं / सो नवरि लिंगधारी, संजमजोएण निस्सारो ||24|| सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः / / स नवरि लिङ्गधारी संयमयोगेन निस्सारः // 23 / / कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् / स नवरि लिङ्गधारी, संयमयोगेन निस्सारः // 24 // व्याख्या - 'सीयावेइ'त्ति शिथिलत्वं प्रापयति, मुनीनामिति शेषः, कं प्रति ?विहारं प्रति, अथवा 'सीयावेइ 'त्ति स्वयमलसो भवति, क्व ? - विहारे, अत्र "सप्तम्या द्वितीये''ति प्राकृतसूत्रेण सप्तम्यर्थे द्वितीयेति, अत्र विहारस्वरूपं बृहत्कल्पादिभ्यो यथा-साधूनां ग्रामनगरराजधान्यादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतिरहितेषु एकं मासं यावद्वस्तुं कल्पते कारणं विना हेमन्तग्रीष्मयोः, कारणे तु पाटकपरावर्त्तनं क्रियते, तदभावे गृहपरावर्त्तनं, तदभावे वसतावेव स्थानपरावर्त्तनं, न त्वेकस्थानवसनमिति, ग्रामादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतियुक्तेषु मासद्वयं यावद्वस्तुं कल्पते हेमन्तग्रीष्मयोः, मासमेकमन्तः बहिरेकं च, यत्रैव वसति तत्रैव भिक्षाचर्या भवति, एवं साध्वीनामपि, नवरं यत्र साधूनां मासकल्पस्तत्र साध्वीनां मासद्वयं यावद्वस्तुं कल्पते [बृह० 3/1-6] / तथा सुखशीलस्य साताभिलाषिणो गुणा:=पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैर्यः 'अबुद्धीओ'त्ति तत्त्वज्ञानरहितः, यद्वा 'सुहसीलगुणेहिं'ति, इत्यत्र सप्तम्यर्थे तृतीया, सुखं च उपशमसन्तोषलक्षणं शीलं च मूलगुणलक्षणं गुणाश्च=उत्तरगुणरूपास्तेषु यः, न विद्यते बुद्धिः अन्तःकरणभावरूपा यस्यासौ अबुद्धिः अबुद्धिरेवाबुद्धिकः भावशून्य इत्यर्थः, यद्वा सुखे मोक्षलक्षणे शीलं स्वभावो येषां ते सुखशीला: जिनास्तेषां गुणाः केवलज्ञानकेवलदर्शनादिरूपास्तेषु यः ‘अबुद्धीओ'त्ति अत्र नञ् कुत्सार्थे कुत्सिता विरुद्धप्ररूपणरूपा बुद्धिः मतिर्यस्यासौ अबुद्धिकः, 'स' पूर्वोक्तः 'नवरं' केवलं लिङ्गं साधुनेपथ्यरूपं धरतीत्येवंशीलो लिङ्गधारी, - - - - - - - - - - - - - - - - - - - - - - -- --- - - 1. 'अ' D-प्रते / 2. 'संजमसारेण नि०' G-प्रते / 3. 'नीसारो' F-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy