________________ 16 0 श्रीगच्छाचारप्रकीर्णकम् // - व्याख्या - न परिश्रवति=न परिगलतीति अपरिश्रावी, आचाराङ्गोक्ततृतीयभङ्ग( हृद)तुल्य इत्यर्थः, तद्यथा-एको हुदः परिगलच्छोताः पर्यागलच्छ्रोताश्च, शीताशीतोदाप्रवाहहूदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च 1, अपरस्तु परिगलच्छ्रोताः नो पर्यागलच्छ्रोताः पद्महूदवत्, पद्महदे तु जलं निर्गच्छति न त्वागच्छति 2, तथा परो नो परिगलत्श्रोताः पर्यागलत्श्रोताश्च, लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति 3, अपरस्तु नो परिगलत्श्रोता नो पर्यागलत्श्रोताश्च, मनुष्यलोकादहिः समुद्रवत्, तत्र नागच्छति न च निर्गच्छति 4 / तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् 1, साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावः कायोत्सर्गादिना क्षपणापत्तेश्च, साम्परायिककर्म तु कषायकर्म 2, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाः अप्रतिश्रावित्वात् 3, कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् 4 / . यद्वा केवलं श्रुतमाश्रित्य धर्मभेदेन भङ्गा योज्यन्ते, तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः 1, द्वितीयभङ्गपतितास्तु तीर्थकृतः 2, तृतीयभङ्गकास्त्वाहालन्दिकाः, तेषां च क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् 3, प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः 4, कथम् ?, सम्यक् सर्वप्रकारेण, तथा समा=अविपरीता पासीति दृष्टिदर्शनमवलोकनं यस्यासौ समदृष्टिर्भवति, क्व ? - 'सर्वकार्येषु' आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः, 'सः' पूर्वोक्त आचार्यः ‘रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कम् ? - 'गच्छं' गणं, किंभूतम् ? - सबालाश्च ते वृद्धाश्च सबालवृद्धास्तैराकुलः सङ्कीर्णस्तं सबालवृद्धाकुलम्, किमिव ? चक्षुरिव, यथा चक्षुर्ग-दौ पतन्तं जन्तुगणं धत्ते तथाऽयमिति // 22 // अथाधमाचार्यस्वरूपं गाथाद्वयेनाह सीयावेइ विहारं, सुहसीलगुणेहिं जो अबुद्धीओ / सो नवरि लिंगधारी, संजमजोएण णिस्सारो ||23|| 1. 'संजमसारेण नि०' E-F-प्रतपाठः - - - - - - - - - - - - - - - - -