SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ of on श्रीवानर्षिगणिविहितवृत्तियुतम् . शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति / प्रमादमदिराग्रस्तं, सामाचारीविराधकम् // 18 // व्याख्या - "शिष्योऽपि' स्वहस्तदीक्षितोऽपि 'वैरी' शत्रुः स यो 'गुरुं' धर्मोपदेशकं 'न बोधयति' हितोपदेशं न ददाति, तुशब्दाद्धितोपदेशं दत्त्वा सन्मार्गे न स्थापयति, किम्भूतम् ?-प्रमादो निद्राविकथादिरूपः स एव मदिरा वारुणी प्रमादमदिरा तया ग्रस्तम् आच्छादितं तत्त्वज्ञानमित्यर्थः, सामाचारीविराधकम्, षष्ठाङ्गोक्तशेलकाचार्यवत् येन चातुर्मासिकमपि न ज्ञातमिति // 18 // अथ कथं प्रमादिनं गुरुं बोधयति ? इत्याह - तुम्हारिसावि मुणिवर !, पमायवसगा हवंति जइ पुरिसा / तेणऽन्नो को अम्हं, आलंबण हुज्ज संसारे ? ||19|| युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः / तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ? // 19 // व्याख्या - युष्मादृशा अपि हे 'मुनिवर !' श्रमणश्रेष्ठ 'प्रमादवशगाः' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः' पुमांसः तेन कारणेन ‘अन्यः' पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानां प्रमादपरवशानां भवच्चरणारविन्दचञ्चरीकाणां त्यक्तपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतुर्गत्यात्मके पततामिति // 19 // नाणंमि दंसणंमि य, चरणमि य तिसु वि समयसारेसु | चोएइ जो ठवेउं, गणमप्पाणं च सो अ गणी ||20|| ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु / नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी // 20 // व्याख्या - 'ज्ञाने' अष्टविधज्ञानाचारे 'दर्शने' अष्टविधदर्शनाचारे च 'चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समयसारेषु, चशब्दात्तपआचारे वीर्याचारे च, 1. 'तो को अन्नो' A-D-E-F-H, अत्र पुनः B-C-G-प्रतपाठः / 2. 'तिसु य' F-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy