SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 12 for श्रीगच्छाचारप्रकीर्णकम् - तथा श्रमणं च श्रमणी 'दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरे जयं चिट्टे' [दशवै० अ.४/श्लो.८] इत्यादिरूपां सत्स्वगच्छोक्तां वा 'न ग्राहयेत्' निर्जरापेक्षी सन्न शिक्षयतीत्यर्थः, तुशब्दात्सुविनीतप्रतीच्छकगणमपि न सूत्रार्थं ददाति सोऽयोग्य इति // 15 // 'बालानां' प्रश्नव्याकरणोक्तानां यो=गणी 'शिष्याणां' अन्तेवासिनां, तुशब्दान्महत्तरा स्वशिष्यणीनां, 'जिह्वया' रसनया उपलिम्पेत् गौरिव वत्सं, भावार्थोऽयम्-अत्यन्तबाह्यहितकोमलामन्त्रणचुम्बनादिप्रकारान् करोतीत्यर्थः, 'सम्यग्मार्ग' मोक्षपथं 'न ग्राहयति' न दर्शयति, न शिक्षयतीत्यर्थः, उपलक्षणाच्छिक्षयन्तमन्यं निवारयति स आचार्यो= गणाधीशो 'वैरी' रिपुरिति त्वं जानीहि, अथवाऽऽर्षत्वाद्विभक्तिपरिणामः, तमाचार्य वैरिणं जानीहि त्वमिति // 16 // अथासद्गुरु-सद्गुर्वोः किञ्चित्स्वरूपं दर्शयति - जीहाए विलिहतो, न भद्दओ सारणा जहिं नत्थि / दंडेण वि ताडतो, स भद्दओ सारणा जत्थ ||17|| जिह्वया विलिहन् न भद्रकः सारणा यत्र नास्ति / दण्डेनापि ताडयन् स भद्रकः सारणा यत्र / / 17 / / व्याख्या - 'जिह्वया विलिहन्' बाह्यहितं कुर्वन्नाचार्यो 'न भद्रो' न कल्याणकृत् यत्र गणिनि-गुरौ 'सारणा' हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा, उपलक्षणत्वाद् वारणा=अहितान्निवारणलक्षणा चोयणा=संयमयोगेषु स्खलितः सन् 'अयुक्तमेतद्भवादृशां विधातुम्' इत्यादिवचनेन प्रेरणा, प्रतिचोदना तथैव पुनः पुनः प्रेरणा 'नास्ति' न विद्यते, तथा दण्डेनापि यष्ट्यापि, अपिशब्दाद्दवरकादिना 'ताडयन्' शरीरे पीडां कुर्वन् स=आचार्यो ‘भद्रः' कल्याणकृत् यतो यत्र सारणादि विद्यत इति // 17 // अथ विनेयनिर्गुणत्वमाह - सीसोवि वेरिओ सो उ, जो गुरुं नवि बोहए | पमायमइराघत्थं, सामायारीविराहयं ||18|| 1. '०मयरा०' F-प्रते / - - . -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy