SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ fe श्रीवानर्षिगणिविहितवृत्तियुतम् देशं क्षेत्रं तु ज्ञात्वा वस्त्रं पात्रं उपाश्रयं / संगृह्णीत साधुवर्गं च, सूत्रार्थं च निभालयति // 14 / / व्याख्या - 'देशं' मालवकादिकं 'क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गाद्युक्तविधिना चीवरं 'पात्रं' पतद्ग्रहादिकं 'उपाश्रयं' स्त्रीपशुपण्डकवर्जितमुनियोग्यालयं संगृह्णीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके - आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति, [स्था० 7/544] तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्गं च, न तु हीनाचारवर्ग, तथा सूत्रंगणधरादिबद्धं तस्यार्थो नियुक्तिभाष्यचूर्णिसङ्ग्रहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थं 'निभालयति' जिनोपदेशेन चिन्तयतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्गं जिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति, प्रायश्चित्तापत्तेः, अथ मोक्षमार्गभञ्जकः कथ्यते - संगहोवग्गहं विहिणा, न करेइ अ जो गणी / समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ||15|| बालाणं जो उ सीसाणं, जीहाए उवलिंपए | न सम्ममग्गं गाहेइ, सो सूरी जाण वेरिओ ||16|| संग्रहोपग्रहं विधिना, न करोति च यो गणी। श्रमणं श्रमणीं तु दीक्षित्वा, सामाचारी न ग्राहयेत् // 15 // बालानां यः पुनः शिष्याणां, जिह्वया उपलिम्पेत् / न सम्यग् मार्गं ग्राहयति, स सूरिर्जानीहि वैरी // 16 // व्याख्या - सङ्ग्रहं ज्ञानादीनां सच्छिष्याणां वा सङ्ग्रहणं, उपग्रहं च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं 'विधिना' उत्सर्गापवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन, चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयति यः कश्चित् 'गणी' आचार्याभासः,
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy