________________ 10 ofen श्रीगच्छाचारप्रकीर्णकम् // प्रयुङ्क्ते तदाऽसौ धारणाव्यवहारः, उद्धृतपदधरणरूपा वा, कश्चित् साधुर्गच्छोपकारी अप्यशेषच्छेदग्रन्थयोग्यो न भवति गुरुस्तस्योद्धृतपदानि ददाति, तेषां पदानां धरणं धारणाव्यवहारः 4, द्रव्यादि विचिन्त्य संहननादीनां हानि ज्ञात्वा चोचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धि दिशन्ति तत्समयभाषया जीतमुच्यते, यद्वा यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तं कारणतः प्रवर्तितं अन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते न चागीतार्थः, अनेकदोषसम्भवादिति, अपिशब्दादनेकभव्यानां विधिना दत्तालोचनस्तेनापीति // 12 // अथालोचनायां दृष्टान्तमाह - जह सुकुसलोऽवि विज्जो, अण्णस्स कहेइ अत्तणो वाहिं। विज्जुवएंसं सुच्चा, पच्छा सो कम्ममायरइ ||13|| यथा सुकुशलोऽपि वैद्योऽन्यस्य कथयति आत्मनो व्याधिम् / वैद्योपदेशं श्रुत्वा, पश्चात् स कर्म आचरति // 13 // व्याख्या - यथा सुष्ठ कुशलोऽपि भिषक्शास्त्रे निपुणोऽपि, अपिशब्दाद्वयःप्राप्तोऽपि, 'वैद्यः' चिकित्साकर्ता 'आत्मनः' स्वस्य 'व्याधि' रोगोत्पत्तिं 'अन्यस्य' परवैद्यस्य 'कथयति' यथास्थितं निरूपयति, 'वैद्योपदेशं' वैद्यनिरूपितं 'श्रुत्वा' आकर्ण्य 'पश्चात्' परवैद्यकथनानन्तरं सः वैद्यस्तद्वैद्योक्तं 'कर्म' प्रतीकाररूपं 'आचरति' करोतीत्यर्थः, एवमालोचनास्वरूपज्ञाता आलोचकोऽपि सद्गुरूक्तं तपो यथाऽर्पितं करोतीति // 13 // अथाचार्यकृत्यं किञ्चिदाह - देसं खित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं / संगहे साहुवग्गं च, सुत्तत्थं च निहाँलई ||14|| - - - - - 1. 'विज्जोवएस सोच्चा' F-प्रते / 2. 'खेत्तं' D-E-F-G-H, अत्र B-C-प्रतपाठः, 'खित्त' A-प्रते / 3. 'निहालिङ' F-G I