SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ open श्रीवानर्षिगणिविहितवृत्तियुतम् .. घटादीनामभिव्यञ्जकः प्रदीपः 27, उपनयः=उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं निमित्तं 28, नया: नैगमादयस्तेषु निपुणः 29, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासं 26 क्वचिद्धेतूपन्यासं 27 क्वचिदधिकृतमर्थमुपसंहरति 28, नयप्रस्तावे नयानवतारयति 29, ग्राहणाकुशल:=प्रतिपादनशक्तियुक्तः 30, स्वसमयं परसमयं वेत्ति, परेणाक्षिप्त उभयं निर्वाहयति 31, 32, गम्भीरः अतुच्छस्वभावः 33, दीप्तिमान् परवादिनामक्षोभ्यः 34, शिवो मारिरोगाद्युपद्रवविघातकृत् 35, सौम्यः शान्तदृष्टितया प्रीत्युत्पादकः 36, तैः समन्वागतेन संयुक्तेन तेनापि, अन्य आस्ताम्, अवश्यं निश्चयेन कर्तव्या, का?-परेषामाचार्याणां साक्षिकी परसाक्षिकी विशेषेण निर्मायत्वेन शुद्धिः= दोषमलकर्षणं विशुद्धिः आलोचनेत्यर्थः, पुनः किंविशिष्टेन तेन ?-सुष्ठ्वपि ज्ञानक्रियाव्यवहारकुशलेन=सुविहितेनेति, यद्वा सुष्ठ्वपि व्यवहारेषु पञ्चप्रकारेषु आगम 1 श्रुता 2 ऽऽज्ञा 3 धारणा 4 जीतलक्षणेषु 5 कुशलो=निपुणस्तेन, तत्राऽऽगम्यन्ते= परिच्छिद्यन्ते पदार्था अनेनेत्यागमः, स च केवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्विदशपूर्विनवपूर्विणां भवति, तत्र यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे परेषाम् 1, निशीथकल्पव्यवहारदशाश्रुतस्कन्धप्रमुखं सर्वमपि श्रुतव्यवहारः 2, देशान्तरस्थिते गुरौ शिष्यो गूढपदानि लिखित्वा प्रेषयति तदाऽसौ आज्ञारूपव्यवहारः, यद्वा देशान्तरस्थितयोर्द्वयोर्गीतार्थयोयूँढपदैरालोचना जातातीचारनिवेदनमाज्ञाव्यवहारः, कोऽर्थः ?-यदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थों क्षीणजङ्घाबलौ विहारक्रमानुरोधतो दूरदेशान्तरव्यवस्थितावत एव परस्परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचाराऽऽसेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं तत्राऽऽगमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धि कथयतीति 3, इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य क्वचिदपराधे या शुद्धिः प्रदत्ता तां तथैवावधार्य सोऽपि शिष्यस्तथैवापराधे
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy