SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् ng दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः 1, ततः प्रमार्जना वसतेः 2, भिक्षा कार्या 3, आगतैरीर्या प्रतिक्रम्या 4, आलोचनं कार्यं गृहानीतानां 5, 'असुरसुरं 'ति भोक्तव्यं 6, कल्पत्रयेण पात्रकाणां धावनं कार्यं 7, विचार:= संज्ञोत्सर्गार्थं बहिर्यानं 8, स्थण्डिलानि 'बारस 2 तिन्नि यत्ति 27 कार्याणि 9, प्रतिक्रमणं कार्यं 10 इत्यादि, विशेषतस्तु पञ्चवस्तुकद्वितीयद्वारे ज्ञेया, तस्या विराधको भञ्जकस्तं सामाचारीविराधकम्, नित्यं यावज्जीवमित्यर्थः, दत्ता=अर्पिता आलोचना स्वपापप्रकाशनरूपा येन स दत्तालोचनो न दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः, महानिशीथोक्तरूपीसाध्वीवत्, आलोचनाग्रहणं किञ्चिद् यथा - प्रथमं स्वकीयाचार्यपार्वे आलोचयितव्यं 1 तदभावे स्वोपाध्याये 2 तदभावे स्वप्रवर्तके 3 तदभावे स्वस्थविरे 4 तदभावे गणावच्छेदिनि 5, अथ स्वगच्छे पञ्चानामप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे पञ्चानामप्यभावे संविग्नेऽसांभोगिके पञ्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभावे गीतार्थपार्श्वस्थसमीपे तदभावे सारूपिके संयतवेषगृहस्थे तदभावे गीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थे तदभावे सम्यक्त्वभावितदेवतायां, यतो देवता महाविदेहादौ जिनानापृच्छ्य कथयत्यतः, तदभावे जिनप्रतिमापुरतः, तदभावे पूर्वाद्यभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति, तथा नित्यं सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा 1 भक्तकथा 2 देशकथा 3 राजकथा 4 मृदुकारुणिकाकथा 5 दर्शनभेदिनीकथा 6 चारित्रभेदिनीकथा 7 रूपा सप्तधा, आद्याश्चतस्त्रः कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृद्वी सा चासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिका, यथा - "हा पुत्त ! 2 हा वच्छ ! 2 मुक्काऽसि कहमणाहाऽहं / एवं कलुणपलावा जलंतजलणेऽज्ज सा पडिया // 1 // " [ ] दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिह्नवप्रशंसारूपा 6, यस्यां कथायां कथ्यमानायां कृतचारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति 7, अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां 'परायणं' तिभृशं
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy