SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 145 6. पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् . मुद्वर्त्तयति = तैलादिना अभ्यंगयति / स्नानादीनि करोति // 114 // (द्वि.अ.) - 'गच्छ०' इत्यादि, या सविलासगतिर्गच्छति / कथम् ? सबिब्बोकं यथा स्यात् तथा, तत्र बिब्बोकः = हावभावादिविकारः / तथा तूलिकां शयनार्थं मयूरपिच्छादीनां करोति / गुप्तदवरिकादिकं प्रस्तारयति / तथा शरीरमुद्वर्त्तयति = तैलादिना अभ्यंगयति / स्नानादीनि साधुजनानुचितानि करोति / अनाचीर्णत्वाच्छेषानाचीर्णोपलक्षणमिदम् // 114 // गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीया / तरुणाइ अहिवडते, अणुजाणे साइ पडिणीया ||115|| गृहेषु गृहस्थानां गत्वा कथां कथयति काथिका / तरुणादीन् अभिपततः अनुजानाति सा प्रत्यनीका // 115 // (प्र.अ.) - 'गेहे०' इत्यादि, गृहेषु गत्वा धर्मकथाम् = प्रतिबोधरूपां कथयति काथिका / तरुणादीन् अभिपततो अनुजानाति / सा = आर्या गच्छप्रत्यनीका भवति // 115 // (द्वि.अ.) - 'गेहे०' इत्यादि, तथा गृहस्थानां गृहे या आर्या धर्मकथां कथयति काथिका आहाराद्यर्थं तेषामावर्जनाय, सा = आर्या गच्छप्रत्यनीका ज्ञातव्या // 115 / / किञ्च - वुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्म / सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ||116|| वृद्धानां तरुणानां रात्रौ आर्या कथयति या धर्मं / सा गणिनी गुणसागर ! प्रत्यनीका भवति गच्छस्य // 116 / / (प्र.अ.) - 'वुड्डा०' इत्यादि, वृद्धानां, तरुणानाम् = द्वात्रिंशद्वार्षिकीयानां पुरतः या आर्या धर्मकथां कथयति / हे गौतम ! हे गुणसागर ! सा गणिनी मुख्या साध्वी गच्छप्रत्यनीका वर्त्तते // 116 // 1. 'जाणे जा उ सा पडणी' A-D-G-प्रते / - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy