SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 146 for श्रीगच्छाचारप्रकीर्णकम् 0g (द्वि.अ.) - 'वुड्डा०' इत्यादि, वृद्धानां, तरुणानां पुरुषाणामधे रात्रौ याऽऽर्या धर्मकथां कथयति, हे गुणसागर ! गौतम ! सा गणिनी = मुख्यसाध्वी गच्छप्रत्यनीका भवति // 116 // जत्थ य समणीण-मसंखडाइं गच्छंमि नेव जायंति / तं गच्छं गच्छवरं, गिहत्थभासाउ नो जत्थ ||117|| यत्र च श्रमणीनामसंखडानि गच्छे नैव जायन्ते / स गच्छः गच्छवरः गृहस्थभाषास्तु न यत्र // 117 / / ___ (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र = गच्छे श्रमणीनामसंस्कृतादीनि = परस्परं कलहादीनि गच्छे नैव जायन्ते = नैवोत्पद्यन्ते / यत्र = गच्छे गृहस्थभाषा न भाष्यते, तं गच्छं श्रेष्ठम् = वरं प्रधानं जानीहि // 117 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे श्रमणीनां मिथोऽसंस्कृतादि परस्परं कलहादि नैव जायते = नोत्पद्यते, पापश्रेण्यादिहेतुत्वाच्च कलहो राटिर्न क्रियते / तं गच्छं गच्छवरम् = सर्वगच्छप्रधानं जानीहि / यत्र च गृहस्थभाषाः साध्वीभिर्नोच्यते इति गाथार्थः // 117 // जो जत्तो वा जाओ, नालोयइ दिवसपक्खियं वावि | सच्छंदा समणीओ, मयहरियाए न ठायंति ||118|| यो यावान् वा जातः नालोचयति दैवसिकं पाक्षिकं वापि / स्वच्छन्दाः श्रमण्यः महत्तरिकाया न तिष्ठन्ति // 118 // (प्र.अ.) - 'जो जा०' इत्यादि, यो यत्रातीचारो जातो भवति स अतीचारस्तत्र नालोचयति / अथवा दैवसिकमतीचारं, पक्षे भवम् = पाक्षिकं तन्नालोच्यते = गुरुसमक्षं न प्रकटीक्रियते / च पुनः यत्र स्वेच्छाचारिण्यः श्रमण्यः महत्तरिकायाः = वृद्धसाध्व्याः आज्ञायां न तिष्ठन्ति / स गच्छो न प्रधानः // 118 / / (द्वि.अ.) - 'जो जत्तो०' इत्यादि, यो यत्रातीचारः जातः तत्र नालोचयति / - - - - - - - - - - 1. 'दाउ व सवणे मय०' F-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy