________________ 124 on श्रीगच्छाचारप्रकीर्णकम् // सर्वत्र स्त्रीवर्गेऽप्रमत्तः सदा अविश्वस्तः / निस्तरति ब्रह्मचर्य, तद्विपरीतो न निस्तरति // 67 // (प्र.अ.) - 'सव्वत्थ०' इत्यादि, सर्वत्र स्त्रीवर्गे अप्रमत्तः सन् सदा अविश्वस्तः = स्त्रीवर्गेऽविश्वासवान् / एवंविधो ब्रह्मचर्यं निस्तरति नियूढं, तद्विपरीतो न निस्तरति // 67 // (द्वि.अ.) - 'सव्व०' इत्यादि, सर्वत्र स्त्रीवर्गेऽप्रमत्तः सन् सदा अविश्वस्तः, एवंविधः साधुः ब्रह्मचर्यं निस्तरति = निर्वाहं करोति, तद्विपरीतश्च न निस्तरति // 67 // 'सव्वत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो | सो होइ अणप्पवसो, अज्जाणं अणुचरंतो उ ||68|| सर्वार्थेषु विमुक्तः साधुः सर्वत्रात्मवशो भवति / स भवत्यनात्मवशो आर्यायाः अनुचरन् तु // 68 / / (प्र.अ.) - 'सव्वत्थ०' इत्यादि, सर्वार्थेषु विमुक्तः, साधुरिति गम्यम्, आत्मवशो भवति / च पुनः आर्याणाम् = साध्वीनाम् अनुचरत्वम् कुर्वन् स साधुः नात्मवशो भवति / लोके साधोरार्यासदृशी बन्धनोपमा नास्ति // 68 // (द्वि.अ.) - 'सव्वत्थ०' इत्यादि, सर्वार्थेषु विमुक्तः साधुरात्मवशो भवति / आर्याणामनुचरत्वं कुर्वन् स साधुः अनात्मवशो भवति = परवशो भवति, साध्व्यधीनकार्यत्वात् // 68 // अत्र दृष्टान्तमाह - खेलपडिअमप्पाणं, न तरइ जह मच्छिआ विमोएउं / अज्जाणुचरो साहू, न तरइ अप्पं विमोएउं ||69|| श्लेष्मपतितमात्मानं, न शक्नोति यथा मक्षिका विमोचयितुम् / आर्यानुचरः साधुर्न शक्नोत्यात्मानं विमोचयितुम् // 69 // - - - - - - - - - - - - - - - - - 1. 'सव्वत्तो वि विमुत्तो' F-प्रते / 2. 'अपवेसो' F-G-प्रते / 3. 'अप्पा वि' E-F-G-प्रते /