________________ open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् org भवति / अत एवार्यासंसर्ग वर्जयेदिति // 64 // किं पुण तरुणो अबहुस्सुओ अ न य वि हु विगिट्ठतवचरणो / अज्जासंसग्गीए, जणजंपणयं न पाविज्जा ? ||65|| किं पुनस्तरुणोऽबहुश्रुतश्च न चापि हु विकृष्टतपश्चरणः / आर्यासंसर्या जनवचनीयतां न प्राप्नुयात् ? // 65 // (प्र.अ.) - 'किं पुण०' इत्यादि, किं पुनस्तरुणोऽबहुश्रुतश्च न च विकृष्टतपश्चरः। एवंविधोऽपि स आर्यासंसर्गाज्जनापवादं न प्राप्नुयादिति गाथार्थः // 65 // ___ (द्वि.अ.) - 'किं पुण०' इत्यादि, तर्हि किंपुनस्तरुणोऽबहुश्रुतश्च न च विकृष्टतपश्चरणः / एवंविधः स आर्यासंसर्या जनवचनीयतां न प्राप्नुयात् ? अपि तु प्राप्नुयादित्यर्थः // 65 // जइवि सयं थिरचित्तो, तहावि संसग्गिलद्धपसराए / अग्गिसमीवे व घयं, विलिज्ज चित्तं खु अज्जाए ||66|| यद्यपि स्वयं स्थिरचित्तस्तथापि संसर्या लब्धप्रसरया / अग्निसमीपे इव घृतं, विलीयेत चित्तं खु आर्यया // 66 // (प्र.अ.) - 'जइवि०' इत्यादि, यद्यपि स्वयं स्थिरचित्तः साधुर्भवति तथापि संसर्गिलब्धप्रसरया आर्यया साधुचित्तं विलीयेत = रागवद् भवति / यथाग्निसमीपे घृतं विलीयते तथा मदनवह्नितापेन साधुमनो हि विलीयेत = रागवद् भवति / अत आर्यासंसर्ग वर्जयेत् साधुः // 66 // (द्वि.अ.) - 'जइ०' इत्यादि, यद्यपि स्वयमात्मना स्थिरचित्तः साधुस्तथापि संसर्गिलब्धप्रसरयाऽऽर्यया साधुचित्तं विलीयते / यथाग्निसमीपे घृतं विलीयते // 66 // सव्वत्थ 'इत्थिवग्गंमि, अप्पमत्तो सया अवीसत्थो / नित्थरइ बंभचेरं, तविवरीओ न नित्थरइ // 67|| - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'जयवि' G-प्रते / 2. 'सग्गल.' F-प्रते / 3. 'अत्थि०' G-प्रते /