SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 122 ___ श्रीगच्छाचारप्रकीर्णकम् // इति / न च स्त्रीणामंगोपांगानि = वदनकुचजघनादीनि ध्यायन्ति = मनसि न स्मरन्ति, स्मरविकारहेतुत्वादिति स गच्छ इति // 62 // किञ्च - वज्जेह अप्पमत्ता !, अज्जासंसग्गि अग्गिविससरिसी / अज्जाणुचरो साहू, लहइ अकित्तिं खु अचिरेण ||63|| वर्जयताप्रमत्ताः ! आर्यासंसर्गीः अग्निविषसदृशीः / आर्यानुचरः साधुर्लभतेऽकीर्ति खु अचिरेण // 63 // (प्र.अ.) - 'वज्जेह०' इत्यादि, अप्रमत्ताः सन्तो यूयमार्यासंसर्ग वर्जयत / किम्भूतं संसर्गम् ? अग्निविषसदृशम् / खु यस्मादार्यानुचरः = आर्यासेवकः साधुः अचिरेण = स्वल्पकालेन अपकीर्ति लभते / अत एवार्यासंसर्ग वर्जयेदिति // 63|| (द्वि.अ.) - 'वज्जेह०' इत्यादि, अप्रमत्ताः सन्तो यूयमार्यासंसर्ग वर्जयत / किम्भूतं संसर्गम् ? अग्निविषसदृशं = विषाग्निसमानं, पूर्वनिपातः प्राकृतत्वात् स्त्रीत्वं च / खुर्यस्मात् आर्यानुचरः साधुरचिरेण = अल्पकालेनापकीर्ति लभते / अत एवार्यासंसर्ग वर्जयेदिति // 63|| थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स | अज्जासंसग्गीए, जणजपणयं हविज्जाहि ||64|| स्थविरस्य तपस्विनो वा, बहुश्रुतस्य वा प्रमाणभूतस्य / आर्यासंसा जनवचनीयता भवेत् // 64 // (प्र.अ.) - 'थेरस्स०' इत्यादि, स्थविरस्य, तपस्विनो, बहुश्रुतस्य, प्रमाणीभूतस्य = सर्वजनमान्यस्य एवंविधस्यापि पुरुषस्यापि आर्यासंसर्या जनवचनीयता = जनापवादो भवति / अत एव आर्यासंसर्ग वर्जयेदिति // 64 // (द्वि.अ.) -- 'थेर०' इत्यादि, स्थविरस्य, तपस्विनो, बहुश्रुतस्य, प्रमाणभूतस्य = सर्वजनमान्यस्य, एवंविधस्यापि पुरुषस्याप्यायसंसर्या जनवचनीयता = जनापवादो ---------------------- -------- 1. 'हवेज्जाहि' D-E-F-G-H-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy