________________ for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .. किं बहुना ? दिवसेनापि यो ज्येष्ठः स लघुना न हील्यते = न निन्द्यते विनयकरणादिभिर्यत्र स गौतम ! गच्छ इत्युच्यते // 60 // जत्थ य अज्जाकप्पो, पाणच्चाएवि रोरदुभिक्खे / न य परिभुंजइ सहसा, गोयम ! गच्छं तयं भणियं ||61|| यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे / न च परिभुज्यते सहसा, गौतम ! गच्छः स भणितः // 61 // (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र गच्छे आर्याकल्पम् = आर्यया स्वलब्ध्यानीतम् = आर्यानीतं प्राणत्यागेऽपि, रौद्रदुर्भिक्षेऽपि च न परिभुज्यते / सहसा = सहसात्कारेणापि, हठेनापि च न परिभुज्यते हे गौतम ! निश्चयतः स गच्छः // 61 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र गच्छे आर्याकल्पम् = साध्वीप्राप्तम् आहारादि प्राणत्यागेऽपि रौद्रदुर्भिक्षे चापि न परिभुंजते सहसा = अनालोच्योत्सर्गापवादादिकारणं हे गौतम ! तस्य गच्छ इति भणितं भगवद्भिरिति // 61 // अथोत्सर्गेण जल्पनपरिचयादिकं निवारयन्नाह - जत्थ य अज्जाहिं समं थेरावि न उल्लवंति गयदसणा | न य झायंति थीणं, अंगोवंगाइं तं गच्छं // 62|| यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः / न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः // 62 / / (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र गच्छे हे गौतम ! स्थविरा अपि अत एव वयोवृद्धाः, तपोवृद्धाः, बहुश्रुता अपि, गतदशनाः अत एव जराकृष्टत्वेन निपतितदन्ताः नोल्लपन्ते उत् = प्राबल्येन बाढं न जल्पन्ति / काभिः समम् ? आर्याभिः / यत्र तु स्त्रीणामंगोपांगानि = जघनकुचकक्षादिरूपस्थानादीनि न ध्यायन्ति स गच्छः // 62 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र च गच्छे आर्याभिः समं स्थविरा अपि 'वयोवृद्धानामत्र ग्रहणं' न उल्लपन्ति / कीदृशाः स्थविराः ? गतदशनाः = दन्तरहिता 1. '०कप्पं' D-F-G-H-प्रते / 2. 'परिभुज्जइ' E-F-प्रते / 3. 'उल्लविति' A-D-E-F-G-H-प्रते /