SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 120 for श्रीगच्छाचारप्रकीर्णकम् // ____(द्वि.अ.) - 'तंपि०' इत्यादि, तमप्याहारं न रूपरसवृद्ध्याद्यर्थ, न च वर्णार्थ, न चैव दर्थं, भुंजते इति शेषः / किन्तु संयमभारोद्वहनार्थम् / अक्षोपांगमिव वहनार्थम् / यथा शकटवाहनार्थं लोकोक्त्या ओंगणं भवति तदिव // 58 // तमपि कारणे भुङ्क्ते, अतः कारणमाह - वेअण 1 वेयावच्चे 2, इरिअट्टाए य 3 संजमट्ठाए 4 / तह पाणवत्तिआए 5, छटुं पुण धम्मचिंताए 6 // 59|| वेदनावैयावृत्त्येर्यार्थं च संयमार्थम् / तथा प्राणप्रत्ययार्थं षष्ठं पुनर्धर्मचिन्तार्थम् / / 59 / / (प्र.अ.) - 'वेअण०' इत्यादि, वेदनार्थम् - क्षुद्वेदनोपशमनाय, वैयावृत्त्यार्थम् = आहारग्रहणं विना न वैयावृत्त्यं भवति अत आहारग्रहणं युक्तम् / तथा ईर्यार्थम्, तथा संयमार्थम्, तथा प्राणवृत्त्यर्थम्, षष्ठं पुनः धर्मचिन्तार्थम् = धर्मध्यानार्थम् // 59 // (द्वि.अ.) - 'वेयः' इत्यादि, क्षुद्वेदनासहनार्थम् 1, गुर्वादीनां वैयावृत्त्यादिकरणार्थम् 2, ईर्याशोधनार्थम् 3, संयमाराधनार्थम् 4, तथा प्राणवृत्त्यर्थम्, षष्ठं पुनः धर्मचिन्ता = धर्मध्यानं तदर्थम् / एभिः षड्भिः कारणैराहारं गृह्णन्ति // 59 // जत्थ य जिठ्ठ-कणिट्ठो, जाणिज्जइ जिट्ठवयणबहुमाणो / दिवसेणवि जो जिट्ठो, न य हीलिज्जइ स गोअमा ! गच्छो ||60|| यत्र च ज्येष्ठः कनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानः / दिवसेनापि यो ज्येष्ठो, न च हील्यते स गौतम ! गच्छः // 60 // (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र प्रव्रज्यापर्यायेण ज्येष्ठकनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानात्, दिवसेनापि यो ज्येष्ठः प्रव्रज्यायां स न हील्यते = न निन्द्यते। हे गौतम ! स गच्छः प्रोच्यते // 60 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र च ज्येष्ठकनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानात्, 1. 'जेट्ठवयण०' इति E-प्रते, 'जेट्ठविणय-बहुमाणा' D-F-G-H-प्रते, अत्र पुन: A-B-C-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy