________________ 118 on श्रीगच्छाचारप्रकीर्णकम् // (द्वि.अ.) - 'खर०' इत्यादि, खरपरुषनिष्ठुरया गिरा = वाण्या गुरुणा क्रियमाण्या निर्भर्त्सननिर्घाटनादिभिश्च ये शिष्या न प्रद्विषन्ति = न प्रद्वेषं गच्छन्ति ते सुशिष्याः // 54 // अथ पुनरपि सुशिष्यवर्णनामाह - जे अ न अकित्तिजणए, नाऽजसजणए, नाऽकज्जकारी य / न पवयणुड्डाहकरे, कंठग्गयपाणसेसेऽवि ||55|| ये च नाकीर्तिजनका नायशोजनका नाकार्यकारिणश्च न प्रवचनोड्डाहकराः कण्ठगतप्राणशेषेऽपि // 55 // (प्र.अ.) - 'जे अ०' इत्यादि, ये सुशिष्या स्वयमनाचारकरणेनात्मीयगुरूणां नाकीर्तिजनका = नाकीलुत्पादकाः, एकदिग्गामिन्यकीर्त्तिः / नापि ते श्रीगुरूणामपयशोजनकाः = अपयशोत्पादकाः, सर्वदिग्व्यापी अयशः / अत एव ते नाकार्यकारिणः = नामार्गगामिनः, न प्रवचनोड्डाहकाः, प्रवचनमध्ये उड्डाहं लोकापवादरूपम्। कण्ठगतेऽपि प्राणशेषेऽपि एवंविधा भवन्ति ये ते सुशिष्याः // 55 // (द्वि.अ.) - 'जे अ०' इत्यादि, ये च शिष्या नापकीर्तिजनकाः नाप्यपयशोजनकाः नाकार्यकारिणश्च, न प्रवचनोड्डाहकारकाः कण्ठगतप्राणशेषेऽपि एवंविधा ये ते सुशिष्याः // 55 // गुरुणा कज्जमकज्जे खर-ककूस-दुठ्ठ-निगुरगिराए / भणिए तहत्ति सीसा भणंति तं गोयमा ! गच्छं ||56|| गुरुणा कार्याकार्ये खरकर्कशदुष्टनिष्ठुरगिरा / भणिते तथेति शिष्याः, भणन्ति स गौतम ! गच्छः // 56 / / (प्र.अ.) - 'गुरु०' इत्यादि, गुरुणा कार्येऽकार्ये उत्पन्ने च कार्ये खरकर्कशदुष्टनिष्ठुरगिरया = वाण्या भणिते सति सुशिष्यास्तथैवेति = 'तहत्ति' इति भणन्ति, हे गौतम ! तं गच्छं महानुभागं = सन्मार्गप्रतिष्ठितं जानीहि // 56 // - - - - - - -- 1. 'सीसे' F-G-प्रतपाठः / - - - - - - - - - - -