________________ fier पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् 115 हालाहलविषं भवति, तेन चामृतेन अजरामरो न भवति, तत्क्षणानिधनं व्रजेत् = तत्कालं मरणमाप्नुयात् // 47 // तदगीतार्थवर्जनोपायमाह - अगीयत्थकुसीलेहिं, संगं तिविहेण वोसिरे | मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ||48|| अगीतार्थकुशीलैः सङ्गं त्रिविधेन व्युत्सृजेत् / मोक्षमार्गस्येमे विघ्नाः, पथि स्तेनका यथा // 48 // (प्र.अ.) - 'अगी०' अगीतार्थकुशीलैः सह संगः = संसर्गः त्रिविधं त्रिविधेन व्युत्सृजेत् / यत इमे कुशीला मोक्षमार्गविघ्नस्य करा अत एव लुटाकसमाना भवन्ति / यथा पथि = मार्गे गच्छतः स्तेनका = चौराः विघ्नकरा भवन्तीति सम्बन्धः // 48 // (द्वि.अ.) - 'अगी०' इत्यादि, अगीतार्थकुशीलैः सह संगः = परिचयं त्रिविधेन = कृतकारितानुमतिभेदेन मनोवाक्कायभेदेन वा व्युत्सृजेत्, यत इमे अगीतार्थकुशीला मोक्षमार्गस्य विना = विघ्नकरा, पथि तस्करा इव = मार्गे चौरा यथा // 48 // पज्जलियं हुयवहं दर्बु, निस्संको तत्थ पविसिउं / अत्ताणं निदहिज्जाहि, नो कुसीलस्स अल्लिए ||49|| प्रज्वलितं हुतवहं दृष्ट्वा, निःशङ्कं तत्र प्रविश्य / आत्मानं निर्दहेत् नैव कुशीलमालीयेत् // 49 // __(प्र.अ.) - ‘पज्ज०' इत्यादि, प्रज्वलितं प्रज्वलंतं वा उप्फुलिंगं हुतवहं = वैश्वानरं दृष्ट्वा निःशंको = निर्भयः तत्र प्रविश्य आत्मानं निर्दहेत् = ज्वालयेत् = भस्मीकुर्यात्, परं कुशीलस्य = दुराचारिणः संगं न कुर्यात् // 49 // (द्वि.अ.) - ‘पज्ज०' इत्यादि, प्रज्वलितं हुतवहं दृष्ट्वा निःशंकस्तत्र प्रविश्य आत्मानं निर्दहेत् = ज्वालयेत्, परं कुशीलस्य = कुत्सिताचारस्य संगं न कुर्यात् // 49 //