________________ 114 geon श्रीगच्छाचारप्रकीर्णकम् मृतोऽप्यमृतसदृशो भवति // 45 // __ (द्वि.अ.) - अथ तत्परमार्थतो विषं तन्न भवति / खु = निश्चितं तद् = विषं अमृतरसायनं भवति यद् = विषं निर्विघ्नं करोति तद् = विषं न मारयति, स मृतोऽप्यमृतसमो जीवन्निव भवतीत्यर्थः // 45 // अगीयत्थस्स वयणेणं, अमयंपि न घुटए | जेण नो तं भवे अमयं, जं अगीयत्थदेसियं // 46|| अगीतार्थस्य वचनेनामृतमपि न पिबेत् / येन न तद् भवेदमृतं यदगीतार्थदेशितम् // 46 // (प्र.अ.) - 'अगी०' इत्यादि, अगीतार्थः अज्ञाततत्त्वः तस्य वचनेन अमृतं = न म्रियते यस्मादिति अमृतमपि न धुंटयेत् = न पिबेत् / येन कारणेन तदगीतार्थवचनं अमृतं न पिबेत् = न भवेत्, यदगीतार्थवचनं देशितं तत्परमार्थतोऽमृतं न भवति = परभवे हितकारकं न भवति // 46 // (द्वि.अ.) - 'अगी०' इत्यादि, अगीतार्थस्य वचनेनाऽमृतं न पिबेत् / येन कारणेन तदगीतार्थवचनम् अमृतं न भवेत्, यदगीतार्थदेशितम् // 46 // परमत्थओ न तं अमयं, विसं हालाहलं खु तं / न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ||47|| परमार्थतो न तदमृतं, विषं हालाहलं खु तत् / न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् // 47 // (प्र.अ.) - 'परम०' इत्यादि, परम् अगीतार्थवचनं परमार्थतः खु = निश्चयेन तद् अमृतं हालाहलं विषं भवति, तेन अजरामरो न भवति, तत्क्षणान्निधनं व्रजेत् = तत्कालं मरणं प्राप्नोतीत्यर्थः // 47 // (द्वि.अ.) - 'परम०' तत्परमार्थतोऽमृतं न भवति / खु = निश्चये तद् अमृतं - - - - - - - - - - - - - 1. 'अग्गीयस्स' F-G-प्रतपाठः / 2. 'अमियंपि' इति /