SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ per पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // 111 ___ (द्वि.अ.) - 'जउति यतो भणितम् - 'सई०' इत्यादि, यथा अनपेक्षया = शिक्षाविहीनत्वेन लोके भृत्यवाहनादयः स्वेच्छाचारिणो भवन्ति चोदनप्रतिचोदनादिभिस्तस्माद् गुरुः स्वशिष्यान् सत्यापयन्ति // 38 // जो ऊ पमायदोसेणं, आलस्सेणं तहेव य / सीसवग्गं न चोएइ, तेण आणा विराहिया ||39|| यस्तु प्रमाददोषेणालस्येन तथैव च / शिष्यवर्गं न प्रेरयति तेनाज्ञा विराधिता // 39 / / (प्र.अ.) - 'जो उ प०' इत्यादि, यः आचार्यपदवीमासाद्य आलस्यादिप्रमाददोषवशतोऽन्वहं स्वशिष्यवर्ग न चोदयति = चोदनादि न कुर्यात्, तेन निश्चितमाचार्येण श्रीमज्जिनाज्ञा विरोधितेति गाथार्थः // 39 // (द्वि.अ.) - 'जो उ०' इत्यादि, यस्तु आचार्यः प्रमाददोषेण शिथिलताशंकातिरेकादिदोषैः स्वशिष्यवर्गम् = स्वपरिवारम् आलस्यादिदोषेण च न चोदयति = न प्रेरयति संयमाध्वनि, तेनाचार्येण जिनाज्ञा विराधिता // 39 // संखेवेणं मए सोम्म !, वन्नियं गुरुलक्खणं / गच्छस्स लक्खणं धीर !, संखेवेणं निसामय ||40|| संक्षेपेण मया सौम्य ! वर्णितं गुरुलक्षणम् / गच्छस्य लक्षणं धीर ! संक्षेपेन निशामय // 40 // (प्र.अ.) - 'संखेवे' इत्यादि, हे सौम्यदर्शन ! हे शिष्य ! समासेन = संक्षेपेण वर्णितम् = उपदर्शितं गुरुलक्षणम् = आचार्यस्वरूपम्, अथ हे धीर ! हे पण्डित ! संक्षेपेण गच्छस्य लक्षणम् = स्वरूपं त्वं सावधानमनाः शृणु, अहं ब्रवीमीति गुरुवाक्यं शिष्यस्य सावधानकरणार्थम् // 40 // (द्वि.अ.) - “संखे०' इत्यादि, हे सौम्यशिष्य ! मया संक्षेपेण गुरुलक्षणं वर्णितम्, अथ हे धीरपण्डित ! संक्षेपेण गच्छलक्षणं शृणु // 40 // 2. 'सोम' :-प्रते। - - - - - - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy