________________ 112 fe श्रीगच्छाचारप्रकीर्णकम् ई. गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए / अक्खलियचरित्ते सययं, रागदोसविवज्जिए ||41|| गीतार्थो यो सुसंविज्ञः अनालस्यी दृढव्रतः।। अस्खलितचारित्रः सततं, रागद्वेषविवर्जितः // 41 // / (प्र.अ.) - 'गीअ०' इत्यादि, गीताः = ज्ञाता अर्था येन स गीतार्थः, सुशोभनः संविग्नः = सुसंविग्नः = शोभनसंवेगवान्, आलस्यरहितः = अनालस्यः, दृढव्रतः, सततमस्खलितचारित्रः = अनतिचारसंयमधरः (रागद्वेषविवर्जितः) इति गाथार्थः // 41 // (द्वि.अ.) - 'गीयत्थो०' इत्यादि, यो गीतार्थो = बहुश्रुतः, सुसंविग्नः = संवेगवान्, अनालस्यः = आलस्यरहितो, दृढव्रतः, सततमस्खलितचारित्रो, रागद्वेषरहितः // 41 // निद्वविअअट्ठमयट्ठाणे, सोसिअकसाए जिइंदिए / विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ||42|| निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः / विहरेत् तेन सार्धं तु छद्मस्थेनापि केवली // 42 // (प्र.अ.) - 'निट्ठवि०' इत्यादि, निष्ठापिताष्टमदस्थानः, शोषितकषायो, जितेन्द्रियः, एवंविधेन तेन छद्मस्थेनापि सार्धं केवली विहरेत् = विहारं कुर्यात्, तदान्येषां च का कथा = वार्ता ? इति गाथार्थः // 42 // (द्वि.अ.) - “निट्ठवि०' इत्यादि, निष्ठापिताष्टमदस्थानः, शोषितकषायो, जितेन्द्रियः एवंविधेन तेन छद्मस्थेनापि सार्धं केवली विहरेत् = विहारं कुर्यात्, तदाऽन्यस्य का वार्ता ? // 42 // तो जे अणहीयपरमत्था, गोअमा ! संजए भवे / तम्हा ते विवज्जिज्जा, दुग्गईपंथदायगे ||43|| येऽनधीतपरमार्थाः, गौतम ! संयता भवन्ति / तस्मात्तानपि विवर्जयेत् दुर्गतिपथदायकान् / 43 // - - - - - - - - - - - - - - - - - - 1. 'सुसिय०' A-D-प्रते, 'समिय०' B-C-E-F-G-H-प्रते /