SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 110 gaon श्रीगच्छाचारप्रकीर्णकम् // पूज्यो भवतीति // 36 // विपर्यासेनाऽऽह - तीआणागयकाले, केई होहिंति गोयमा ! सूरी। जेसिं नामग्गहणेऽवि, होई नियमेण पच्छित्तं // 37|| अतीतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः / येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् // 37 / / (प्र.अ.) - 'तीआणा०' इत्यादि, अतीतानागतकाले केचित् सूरयोऽतीवदुष्टाः, अशीलाः, अनुष्ठानादिवन्तो, महारम्भिणः, सपरिग्रहाः, विषययुक्ताः, अब्रह्मचारिणो, लिङ्गमात्रजीविनः एवंविधा अगुणोपेता भूता भविष्यन्ति सन्ति च, येषामभिधानग्रहणेन नियमेन = निश्चयेन प्रायश्चित्तं = महत्तपोरूपं भवतीति गाथार्थः // 37|| (द्वि.अ.) - 'तीया०' इत्यादि, अतीतेऽनागते च काले केचिन्निर्गुणाः सूरयः भूता भविष्यन्ति च, येषां नामग्रहणेऽपि = अभिधानस्मृतावपि नियमेन प्रायश्चित्तमापद्यते, सदोषदुष्टत्वात् // 37 // यतः प्रोक्तमस्ति - संयरीभवंति अणविक्खयाइ, जह भिच्चवाहणा लोए | पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयइ ||38|| स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके / प्रतिपृच्छाभिश्चोदनाभिः, तस्मात्तु गुरुः सदा भजते // 38 // (प्र.अ.) - 'सय०' इत्यादि, यथा अनपेक्षया = शिक्षारहितत्वेन लोके भृत्यवाहनादयः सयरीभवन्तीति = स्वेच्छाचारिणो भवन्ति, तस्माद् कारणादेवं ज्ञात्वा प्रतिपृच्छादिभिः सारणा-वारणा-चोदना-प्रतिचोदनाभिश्च सुशिष्यस्य सत्यापयतीति गाथार्थः // 38 // - - - - - - - - - - - - - - - - - - - - - 1. '०हणेण हो०' E-F-G | 2. 'होज्ज' H-प्रते, 'हुज्ज' - A-प्रते / 3. 'सइरी०' H-प्रते / 4. 'पडिपुच्छ सोहि चोयण' A-H-आदिषु / 5. 'भयई' H-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy