________________ 09 open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // कर्माणि शोधयति सुलभबोधिश्च भवति // 34|| सम्मग्गमग्गसंपट्टिआण, साहूण कुणइ वच्छल्लं / ओसहभेसज्जेहि य, सयमन्नेणं तु कारेई ||35|| सन्मार्गमार्गसंप्रस्थितानां, साधूनां करोति वात्सल्यम् / औषधभैषज्यैश्च स्वयं अन्येन तु कारयति // 35 // (प्र.अ.) - 'सम्मग्ग०' इत्यादि, सन्मार्गप्रस्थितानां साधूनां करोति वैयावृत्त्यम्, औषधं भेषजश्च स्वयं करोति अन्येन कारापयतीति गाथार्थः // 35 // (द्वि.अ.) - 'सम्म०' इत्यादि, सन्मार्गमार्गसंप्रस्थितानां साधनां वात्सल्यम औषधभेषजैश्च स्वयं करोति, अन्येन वा गृहस्थादिना कारयति स संविग्नपाक्षिकः साधुः आराधको भवति // 35 // भूए अत्थि भविस्संति, केइ तेलुक्क मिअकमज़ुअला | जेसिं परहिअकरणिकबद्धलक्खाण वोलिही कालो ||36 / / भूताः सन्ति भविष्यन्ति, केचित् त्रैलोक्यनतक्रमयुगलाः / येषां परहितकरणैकबद्धलक्षाणां गमिष्यति कालः // 36 // (प्र.अ.) - 'भूए०' इत्यादि, इत्थं त्रैलोक्याः = स्वर्गमर्त्यपातालरूपास्तेषां प्रणयनशीलाः क्रमयुगाश्चरणारविंदाः, अत एव सर्वत्र पूज्याः, एवंविधाः विशिष्टाचाराः अनुष्ठानवन्तः केचित् सत्पुरुषाः सुगुरवो अतीतकाले भविष्यन्ति, येषां सत्पुरुषाणां = परहितकरणैकनिबद्धलक्षाणां कालः = बोधिलाभो गमिष्यति, एभिर्लक्षणैः संविग्नपाक्षिका ज्ञायन्ते इति गाथार्थः // 36 // (द्वि.अ.) - 'भूए०' इत्यादि, त्रैलोक्यनतक्रमयुगलाः = त्रिलोकीजनप्रणतपादद्वयाः पूज्या इति यावत्, एवंविधाः केचित् = सत्पुरुषाः भूतास्सन्ति भविष्यन्तीति, येषां परहितकरणैकबद्धलक्षानां कालः सर्वोऽपि 'वोलही ति अतिक्रमिष्यति स संविग्नपाक्षिक: - - - - - - - - - - - - - - - - 1. 'कारेई' H-प्रते / 2. 'तेलोक्क०' H-प्रते / 3. 'नमंसणीय०' D-E-F-G-H | 4. 'जुयले' H-आदिषु / 5. '०करणेक्क०' H-आदिषु /