SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 108 gaon श्रीगच्छाचारप्रकीर्णकम् . गृहस्थ उभयभ्रष्ट इति गाथार्थः // 32 // (द्वि.अ.) - 'सुद्धं०' इत्यादि, शुद्धं सुसाधुमार्ग कथयन् = शुद्धप्ररूपक इति, आत्मानं तृतीयपक्षे = संविग्नपाक्षिकमार्गे स्थापयतीति / इतरः पुनः उत्सूत्रभाषको गृहस्थधर्मादपि भ्रष्टः, आस्तां तावद् यतिधर्मः, गृहस्थेऽपि न भवतीति // 32 // जइवि न सळू काउं, सम्मं जिणभासि अणुट्ठाणं / तो सम्म भासिज्जा, जह भणिअं खीणरागेहिं ||33|| यद्यपि न शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम् / ततः सम्यग् भाषेत यथा भणितं क्षीणरागैः // 33 // (प्र.अ.) - 'जइवि०' इत्यादि, यद्यपि कथंचित् प्रमादात् भ्रश्यति, अत एव आलस्यादियोगेन कर्मयोगेन वा सामग्र्यभावेन वा जिनभाषितं = प्ररूपितमनुष्ठानं सम्यक्कर्तुं सत्क्रियया न शक्नोति तदा ततो यथा क्षीणरागाः = केवलिनस्तैः सम्यग् प्ररूपणया प्ररूपितं तथा सम्यग् भाषितानुसारेण स्वयमेव प्ररूपयेत् इति गाथार्थः // 33 // (द्वि.अ.) - जइवि०' इत्यादि, यद्यपि जिनभाषितमनुष्ठानं सम्यक् कर्तुं न शक्नोति, तदा यथा क्षीणरागैः सर्वज्ञैर्भणितमनुष्ठानादि तथा सम्यग् भाषेत // 3 // 'ओस्सन्नोऽवि विहारे, कम्मं सोहेइ सुलभबोही य | चरणकरणं विसुद्धं, उववूहिंतो परूवितो ||34|| अवसन्नोऽपि विहारे, कर्म शोधयति सुलभबोधिश्च / चरणकरणं विशुद्धं, उपबृंहयन् प्ररूपयन् // 34 // (प्र.अ.) - 'ओसन्नो०' इत्यादि, विहारेऽवसन्नो क्रियायां चरणविशुद्धमुपद्व्हन् शुद्धं प्ररूपयेत्, एवंविधो मुनिः कर्माणि शोधयति, सुलभबोधिश्च भवति // 34|| (द्वि.अ.) - 'ओसन्नो०' इत्यादि, विहारेऽवसन्नेऽपि = संयमक्रियायामलसोऽपि चरणकरणमार्ग विशुद्धमुपद्व्हयन् = प्रशंसयन्, शुद्धं च प्ररूपयन्, एवंविधः साधुः 1. 'सक्कइ का०' F-प्रते / 2. 'ता' E-प्रते / 3. 'उस्सन्नो' B-C-प्रतपाठः / - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy