SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .np 107 = भव्यसत्त्वसमूहं च नाशयति = भ्रमाडयति / दृष्टान्तमाह - यथा कुत्तारः कुत्सिततारको नाविक: नरो भवति स बहून् पृष्टलग्नान् जनान् नद्यादौ मज्जयति, स्वयं निपततीति गाथार्थः // 30 // (द्वि.अ.) - 'उम्म०' इत्यादि, उन्मार्गस्थित एकोपि मुख्यः सन्मार्गमनुसरंतं भव्यसमूहं नाशयति = भ्रमयति संसारारण्ये / दृष्टांतमाह = यथा कुत्तारः = कुत्सिततारको नरो भवति स बहून् पृष्टिलग्नान् जीवान् नद्यादौ मज्जयति स्वकमात्मानमपि सार्धम् // 30 // उम्मग्गमग्गसंपट्ठिआण, साहूण गोअमा ! नूनं / संसारो अ अणंतो, होइ य सम्मग्गनासीणं ||31|| उन्मार्गमार्गसम्प्रस्थितानां साधूनां गौतम ! नूनम् / संसारश्चानन्तो भवति सन्मार्गनाशिनाम् // 31 // (प्र.अ.) - 'उम्मग्ग०' इत्यादि, उन्मार्गे संप्रस्थितानां = चलितानां च = पुनः सन्मार्गनाशिनां = कुमार्गोपदेशकानां नामतः साधूनां न भावतः, एवंविधानां हे गौतम ! निश्चयेन अनन्तसंसारो भवति // 31 // (द्वि.अ.) - उन्मार्गमार्गसंप्रस्थितानां = चलितानाम्, सन्मार्गनाशिनां हे गौतम ! नूनमनन्तः संसारो भवति // 31 // सुद्धं सुसाहुमग्गं, कहमाणो ठवइ तइअपक्खम्मि | अप्पाणं, इयरो पुण गिहत्थधम्माओ चुकृत्ति ||32|| शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे / आत्मनमितरः पुनर्गृहस्थधर्माद् भ्रष्ट इति // 32 // (प्र.अ.) - 'सुद्ध०' इत्यादि, शुद्धम् = दोषरहितं सुसाधुमार्ग कथयन् = आह, आत्मानं तृतीयपक्षे = संविग्नपाक्षिकमार्गे स्थापयति / इतरः पुनः उत्सूत्रभाषको - - - - - - - - - - 1. '०ण सूरीण' A-D-F-G-H-प्रतपाठः / 2. 'णूणं' A-D-आदिषु / 3. 'होई स' E-प्रते / 4. 'साधूनां भावतः' इति B-C-प्रतपाठः / 5. 'चक्क त्ति' E-G, 'चुक्केति' A-D, 'चुक्को त्ति' F-H |
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy